Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 587
________________ ॥१४९०॥ कायोगशास्त्र स्वोपत्रवृत्तौ सप्तमं परिशिष्टम् प्रिययोगा-ऽप्रियायोग-पीडा-लक्ष्मीविचिन्तनम् । आतं चतुर्विधं ज्ञेयं तिर्यग्गतिनिबन्धनम् ॥ ११ ॥ रौद्रं हिंसा-ऽनृत-स्तेय-भोगरक्षणचिन्तनम् । ज्ञेयं चतुर्विधं शक्तं श्वभ्रभूमिप्रवेशने ॥ १२ ॥ आज्ञा-ऽपाय-विपाकानां चिन्तनं लोकसंस्थितेः। चतुर्धाऽभिहितं धयं निमित्तं नाकशर्मणः ॥ १३ ॥ शुक्तं पृथक्त्ववितर्कवीचारं प्रथमं मतम् । जिनैरेकत्ववीतर्काविचारं च द्वितीयकम् ॥ १४ ॥ अन्यत् सूक्ष्मक्रियं तुर्य समुच्छिन्नक्रियं मतम् । इत्थं चतुर्विधं शुक्लं सिद्धिसौधप्रवेशकम् ॥ १५ ॥ आर्त तनूमतां ध्यानं प्रमत्तान्तगुणाश्रितम् । संयतासंयतान्तानां रौद्रं ध्यानं प्रवर्वते ॥ १६ ॥ अनपेतस्य धर्म्यस्य धर्मतो दशभेदतः । चतुर्थः पञ्चमः षष्ठः सप्तमश्च प्रवर्तकः ।। १७ ॥ समर्थ निर्मलीकर्तुं शुक्लं रत्नशिखास्थिरम् । अपूर्वकरणादीनां मुमुक्षूणां प्रवर्तते ॥ १८ ॥ अहायोद्धयते सर्व कर्म ध्यानेन सश्चितम् । वृद्धं समीरणेनेव बलाहककदम्बकम् ॥ १९ ।। ध्यानद्वयेन पूर्वेण जन्यन्ते कर्मपर्वताः । वजेणेव विभिद्यन्ते परेण सहसा पुनः ॥ २० ॥ यो ध्यानेन विना मूढः कर्मच्छेदं चिकीर्षति । कुलिशेन विना शैलं स्फुटमेष बिभित्सति ॥ २१ ॥ ध्यानेन निर्मलेनाशु हन्यते कर्मसञ्चयः । हुताशनकणेनापि स्नु(प्लु)प्यते किं न काननम् ॥२२ ।। ध्यान विधित्सता ज्ञेयं ध्याता ध्येयं विधिः फलम् । विधेयानि प्रसिध्यन्ति सामग्रीतो बिना न हि ॥ २३ ॥ ॥१४९०॥ RECTRESERECERRCHCHCECHSHEECHESHRESHERE MERRICHECORICHERRRRRRRRRRRRRRRRRHOI १ तुला योगशास्त्रे १०७॥ २ तुला योगशास्त्रे ११॥५॥ ३ तुला- योगशास्त्रे ७१-७॥ Jain Education nal For Private & Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632