________________
स्थैर्य । स्थैर्य जिनधर्मे परेषां स्थिरतापादनम्, स्वयं जिनधर्मे नि:प्रकम्पता १, तथा प्रभावना २, तथा भक्तिः प्रवचने गणाधिकेषु विनय-वैयावृत्त्यादिप्रतिपत्तिः ३, जिनशासने कौशलं नैपुण्यम् ४, तीर्थ सेवा च ५, एतान्यस्य सम्यक्त्वस्य पञ्च भूषणानि बुधाः प्रचक्षते कथयन्ति ॥ १६ ॥
अथ सम्यक्त्वदूषणान्याह
शंका १ कांक्षा २ विचिकित्सा ३ मिथ्यादृष्टिप्रशंसनम् ४ ।
तत्संस्तवश्च पश्चापि सम्यक्त्वं दूषयन्त्यमी ॥ १७ ॥ शंका । शङ्का जीवाजीवादितत्त्वसन्देहः १, आकाडा अन्यान्यदर्शनेच्छा २, विचिकित्सा धर्मफलसन्देहः ३, मिथ्यादृष्टेः प्रशंसा ४, मिथ्यादृष्टिपरिचयश्च ५, अमी पञ्च दोषाः सम्यक्त्वं दूषयन्ति ॥ १७ ॥
MEHBHEHERCHOICKEKORSHHHHHHEHREMIERCHIMBORSHISHRSHISHEK
अथाणुव्रतान्याह
विरतिं स्थूलहिंसादेर्द्विविधत्रिविधादिना ।
अहिंसादीनि पञ्चाणुव्रतानि जगदुर्जिनाः ॥ १८ ॥ विरतिं० । स्थूलहिंसादीनां विरतिं द्विविधन करण-कारणाभ्यां त्रिविधेन मनोवाक्कायैः, आदिशब्दात् शेषभङ्गैच, जिना से अहिंसादीनि पञ्चाणुव्रतानि जगदुः ॥ १८ ॥ h al
॥ १३४५॥
Jain Education In
For Private & Personal Use Only
क
ww.jainelibrary.org