Book Title: Visheshavashyak Bhashya Part 07 Author(s): Jinbhadragani Kshamashraman, Chaturvijay Publisher: Harakchand Bhurabhai Shah View full book textPage 8
________________ विशेषा० ।।१२०६॥ Jain Education Internati 'सुत्तेसु विसेसिज्जइ जह त्ति' यथा तेषु तेषु सिद्धान्तसूत्रेषु स एवैको मुक्तात्मा सिद्धा ऽकायिक-नोसंयतादिपर्यायैर्विशेष्यते प्रतिपाद्यते । आदिशब्दाद् नोभव्य-नोबादर-नोपर्याप्त नोपरीत-नोसंज्ञि परिनिवृत्तादिपर्यायैरपि विशेष्य कचित् प्रतिपाद्यते । 'इह तह त्ति' तथेहापि क्षायिकज्ञानवस्त्वेकमेव केवलज्ञान- केवलदर्शनपर्यायध्वनिभ्यां विशेष्यते । एवमन्यान्यपि सर्वाणि पुरन्दर-पट-वृक्षादिवस्तूनि निजनिजपर्यायशब्दैः समये लोके च विशेष्यन्त एवेति क इह मद्वेषः १ इति ॥ ३१११ ।। अथैवं सूरिः परं दुरभिनिवेशममुञ्चन्तमवलोक्य युगपदुपयोगद्वयपक्षं मूलत एवोन्मूलयितुं क्रमोपयोगसाधकं व्यक्तमेव सिद्धान्तोक्तमादर्शयन्नाह — भणियं पिय पन्नत्ती - पन्नवणाईसु जह जिणो समयं । जं जाणइ न वि पासइ तं अणु-रयणप्पभाईणि ॥ ३११२ ॥ ननुज्ञप्त्यां भगवत्याम्, प्रज्ञापनायां च स्फुटं भणितमेत्रोक्तमेव यथा- जिनः केवली परमाणु-रत्नप्रभादीनि वस्तूनि 'समयं जं जाणइ त्ति' यस्मिन् समये जानाति, 'न वि पासइ तं ति' तस्मिन् समये नैव पश्यति, किन्त्वन्यस्मिन् समये जानाति, अन्यस्मिंस्तु पश्यति । इयमत्र भावना - इह भगवत्यां तावदष्टादशशतस्याष्टमोदेशके स्फुटमेवोक्तम् ; तद्यथा- "छउमत्थे णं भंते ! मणुस्से परमाणुपोग्गलं किं जाणइ न पास, उताहो न जाणइ न पासइ ? । गोयमा ! अत्थेगइए जाणइ, न पासइ; अत्थेगइए न जाणइ, न पास; एवं जाव असंखिज्जपएसिए खंधे (इद्द च्छद्मस्थो निरतिशय गृह्यते, तत्र श्रुतज्ञानी श्रुतज्ञानेन परमाणुं जानाति न तु पश्यति श्रुते दर्शनाभावात्; अपरस्तु न जानाति न पश्यति) एवं ओहिए वि । परमोहिए णं भंते! मणूसे परमाणुपोग्गलं जं समयं जाणइ तं समयं पासइ, जं समयं पासइ तं समयं जाणइ ? | नो इण्डे समहे । से केण हेणं भंते ! एवं बुच्चइ ? । गोयमा ! सागारे से नाणं भवइ, अणगारे से दंसणे भवइ, तेण द्वेणं एवं बुच्चइ" इत्यादि । एवं प्रज्ञापनोक्तमपि द्रष्टव्यम् । तदेवं सिद्धान्ते स्फुटाक्षरैर्युगपदुपयोगे निषिद्धेऽपि किमिति सर्वानर्थमूलं तदभिमानमुत्सृज्य क्रमोपयोगो नेष्यते ? इति ।। ३११२ ।। १ भणितमपि च प्रज्ञप्ति-प्रज्ञापनादिषु यथा जिनः समये । यस्मिन् जानाति न हि पश्यति तस्मिन्नणु-रखप्रभादीनि ॥ ३११२ ॥ २ छग्रस्थो भगवन् ! मनुष्यः परमाणुपुद्गलं जानाति न पश्यति उताहो न जानाति न पश्यति ? । गौतम ! अस्त्येको जानाति, न पश्यति अस्त्यैको न जानाति, न पश्यति एवं यावदसंख्येयप्रदेशिकान् स्कन्धान् । एवमवधावपि । परमावधिको भगवन्! मनुष्यः परमाणुपुद्गलं यस्मिन् समये जानाति तस्मिन् समये पश्यति यस्मिन् समये पश्यति तस्मिन् समये जानाति ? । नायमर्थः समर्थः । अथ केनार्थेन भगवन् ! एवमुच्यते ! । गौतम ! साकारं तस्य ज्ञानं भवति, अनाकारं तस्य दर्शनम् ; तेनार्थेनैवमुध्यते ॥ For Personal and Private Use Only बृहद्वातिः । ॥१२०६॥ www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 160