Book Title: Visheshavashyak Bhashya Part 07 Author(s): Jinbhadragani Kshamashraman, Chaturvijay Publisher: Harakchand Bhurabhai Shah View full book textPage 6
________________ विशेषा० । १२०४ ॥ Jain Educator Internal अह जम्मि नोवउत्तो तं नत्थि तओ न दंसणाइतिगे । अत्थि जुगवावओगोत्ति होउ साहू कहं विगलो ? ॥ ३१०६ ॥ अथैवं मन्यसे - क्रमोपयोगित्वेऽभ्युपगम्यमाने केवली यस्मिञ्ज्ञाने दर्शने वोपयुक्तस्तदस्ति, यस्मिंस्तु नोपयुक्तस्तत् तदा नास्त्येव, अनुपलभ्यमानत्वात्, खरविषाणवत् । ततस्तर्हि दर्शनादित्रि के दर्शन - ज्ञान - चारित्रत्रये छद्मस्थस्य साधोंर्युगपदुपयोगो नास्ति, छद्मस्थस्य युगपदुपयोगाभावस्य त्वयाभ्युपगतत्वात् । ततो दर्शनादित्रिके यत्राप्यनुपयुक्तस्तदपि त्वदभिप्रायेण नास्ति । अतस्तद्विकल एकेनापि दर्शनादिना रहितः कथं साधुर्भवतु ? - न प्राप्नोत्येव साधुत्वं तस्य त्वदभिप्रायेणेति भावः । भण्यते चासौ समये लोके सर्वदैव साधुः । ततो नेदमपि क्रमोपयोगे दूषणमिति ।। ३१०६ ॥ 'यत्रानुपयुक्तस्तदसत्' इत्यत्र दूषणान्तराण्यप्याह- ठिकालविसंवाओ नाणाणं न विय ते चउन्नाणी । एवं सइ छउमत्थो अस्थि न य तिदंसणी समए ॥ ३१०७॥ इह ज्ञानानां दर्शनानां चोपयोग आन्तमौहूर्तिक एव समये प्रोक्तः । तस्माच्च परतस्त्वदभिप्रायेण किल ज्ञानं दर्शनं वा नास्ति । एवं सति ज्ञानानामुपयोगलक्षणत्वाद् दर्शनानां च यः सातिरेकषट्षष्टिसागरोपमादिको दीर्घः स्थितिकालः समये प्रोक्तस्तस्य विसंवादो विघटनं प्रति । यश्च चतुर्ज्ञानी केवलदर्शनवर्जदर्शनत्रययुक्तत्वात् त्रिदर्शनी च च्छद्मस्थो गौतमादिः प्रसिद्धः सोऽपि त्वदभिप्रायेण तद्रूपः सर्वदा न भवति, एकदैकोपयोगस्यैव संभवात्, अनुपयोगवतश्चासत्त्वादिति ।। ३१०७ ।। अथ सिद्धान्तावष्टम्भेन पुनरपि पर: माह आह भणियं न सुए केवलिणो केवलोवओगेण । पढम त्ति तेण गम्मइ सओवओगोभयं तेसिं ॥ ३१०८ ॥ आह- ननु भणितं भगवत्यामष्टादशशतक प्रथमोद्देश लक्षणे श्रुते- ""केवली णं भन्ते ! केवलोवओगेणं किं पढमा अपढमा ? | गोमा ! पढमा नो अपढम त्ति" इति । इह च यो येन भावेन पूर्व नासीत्, इदानीं च जातः, स तेन भावेन प्रथम उच्यते । ततश्च केवलिनः केवलोपयोगेन प्रथमाः । अयमर्थ:- केवलयोः केवलज्ञान- केवलदर्शनयोरुपयोगः केवलोपयोगस्तेन केवलिनः प्रथमाः, न त्वप्रथ १ अथ यस्मिन् नोपयुक्तस्तद् नास्ति ततो न दर्शनादित्रिके । अस्ति युगपदुपयोग इति भवतु साधुः कथं विकलः ? ॥ ३१०६ ॥ २ स्थितिकालविसंघादो ज्ञानानां नापि च ते चतुर्ज्ञानः । एवं सति च्छद्मस्थोऽस्ति न च त्रिदर्शनः समये ॥ ३१०७ ॥ ३ आह भणितं ननु ते केवलिनः केवलोपयोगेन । प्रथमा इति तेन गम्यते सदोपयोगोभयं तेषाम् ॥ ३१०८ ॥ ४ केवलिनो भगवन् ! केवलोपयोरोन किं प्रथमा अप्रथमाः ? गौतम ! प्रथमाः, नो अप्रथमाः । For Personal and Private Use Only बृहद्वृत्तिः । ॥२०४॥ www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 160