Book Title: Visheshavashyak Bhashya Part 07 Author(s): Jinbhadragani Kshamashraman, Chaturvijay Publisher: Harakchand Bhurabhai Shah View full book textPage 5
________________ विशेषा ० ॥१२०३॥ Jain Education Internati रितरेतरावरणता परस्परमावारकत्वं प्राप्नोति, कर्मावरणाभावेऽप्यन्यतरसद्भावेऽन्यतराभावादिति । अथेतरेतरावरणता नेष्यते, तर्ह्यन्यतरोपयोगकालेऽन्यतरस्य निष्कारणमेवावरणं स्यात् । तथा च सति 'नित्यं सचमसच्चं वा' इत्यादि प्रसज्यत इति । तथा, एकतरस्मिन् ज्ञाने दर्शने वानुपयुक्तस्तस्मिन्नेक तरानुपयुक्तं केवलिनीष्यमाणं ज्ञानानुपयोगकाले तस्य केवलिनोऽसर्वज्ञत्वं प्राप्नोति, दर्शनानुपयोगकाले त्वसर्वदर्शित्वं प्रसजति । अनुस्वारह लुप्तो द्रष्टव्यः । तच्च सर्वज्ञत्वम सर्वदर्शित्वं च नेष्टं जैनानाम्, सर्वदेव केव लिनि सर्वज्ञत्व सर्वदर्शित्वाभ्युपगमादिति । सूरिराह- भण्यतेऽत्रोत्तरम् - ननु च्छद्मस्थस्यापि दर्शन- ज्ञानयोरेकान्तर उपयोगे सर्वमिदं दोषजालं समानमेव । अत्रापि हि शक्यत एव वक्तुम् ज्ञानानुपयोगे तस्याज्ञानित्वम् दर्शनानुपयोगे पुनरदर्शनित्वम् ; तथा मिथ्यावरणक्षयः, इतरेतरावरणता वा, निष्कारणावरणत्वं वेत्यादि ।। ३१०२ ।। ३१०३ ॥ पुनरप्यनिर्विण्णस्य परस्याशङ्कामाह Horaणावरण अह मन्नास केवली न छउमत्थो । उभओवओगविग्घो तो छउमत्थस्स न जिणस्स ॥ ३१०४ ॥ अथैवं मन्यसे सर्वक्षणावरणः क्षपितनिःशेषावरणः केवली, न तु च्छद्मस्थः, ततो युगपज्ज्ञान- दशनाभयवियोगविघ्नश्छद्मस्थ स्यैव भवति, सावरणत्वात् न तु जिनस्य केवलिनः सर्वथा निरावरणत्वादिति ।। ३१०४ ।। अत्रोत्तरमाह देसक्खए अजुत्तं जुगवं कसिणोभओवओगित्तं । देसोभओवओगो पुणाइ पडिसिजए किं सो ? ॥ ३१०५ ॥ इह यद्यपि च्छद्मस्थः क्षीणनिःशेषावरणो न भवति, तथापि देशतस्तस्याप्यवरणक्षयो लभ्यते । ततस्तस्यावरणक्षये सति युगपत् कृत्स्नोभयोपयोगित्वं युगपत् सर्ववस्तुविषयज्ञान- दर्शनो भयोपयोग भवनमयुक्तम्, इत्येतावन्मात्रं मन्यामहे वयम् । यस्तु देशतोऽसवस्तुविषयज्ञान-दर्शन भयोपयोगः स हन्त ! 'से' तस्य च्छद्मस्थस्य किं प्रतिषिध्यते ?- न तु युक्तस्तत्प्रतिषेध इत्यर्थः । न चास्य युगपदुभयोपयोगो भवति, ततोऽसौ केवलिनोऽपि न युक्त इतीह भावार्थ: ।। ३१०५ ॥ पुनरपि पराशङ्कां परिहारं चाह -- १ सर्वक्षीणावरणोऽथ मन्यसे केवली न च्छद्मस्थः । उभयोपयोगविघ्नस्ततइउग्रस्थस्य न जिनस्य ॥ ३१०४ ॥ २ देशयेयुक्तं युगपत् कृत्स्नोभयोपयोगित्वम् । देशोभयोपयोगः पुनः प्रतिषिध्यते किं सः १ ॥ ३१०५ ॥ For Personal and Private Use Only बृहद्वत्तिः । ||१२०३॥ www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 160