Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 52
________________ १ प्रव्रज्यावस्तु किमिति पुनर्वचनम् — 'वर्तमानकल्पाधिकारिकत्वात् प्रगृहीताञ्जलि' मित्यादेः परिभाषातो'' अस्त्यस्येह पुराकल्पे सिद्धिरितिवचनम् ॥ याचितवन्तमिति किम् । प्रव्रज्योपसंपदौ ॥ याचनं पुनः - " शृणोतु, भदन्ताः संघो, अहमेवं-नामा आकाङ्क्षामि स्वाख्याते धर्मविनये प्रव्रज्योपसंपदं भिक्षुभावम्" इति विस्तरः ॥ अनेन मन्त्रेण त्रिर्याचितवन्तं ज्ञप्तिचतुर्थेन कर्मणा इति तिस्रो वाचना ज्ञप्तिचतुर्थी यस्मिन् कर्मणि तद् ज्ञप्तिचतुर्थं कर्म तेन ॥ सहप्रव्रज्योपसंपदौ इति प्रव्रज्योपसंपञ्च समानकालं, न क्रमेणेति । उपनयेयुरिति संघभूता भिक्षवः । तथा च मन्त्रः - - " शृणोतु, भदन्ता: संघो, अयमेवं-नामा आकांक्षति स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं यावत् प्रात्राजित उपसंपादित एवं-नामा संघेनेति " ॥ इति पुराकल्पः । इति-शब्दः प्रकारवाच ॥ पुराकल्प इति वर्तमानकल्पात् प्राक् एवं - प्रकारः प्रव्रज्योपसंपद्विधिरित्यर्थः ॥ अथ किमिति वर्तमानकल्प एव भगवता न प्राक्प्रज्ञप्तः, किं वा पुराकल्पत्यागेन अस्य विधेः पुनः प्रज्ञपनम् ? [इति चेत् ], विशुद्धसत्त्वा हि ते तदानीं प्रतिपत्तारः । तेषां न क्रमेण विनियम्यत्वं न परावष्टंभेन परिशिक्षणं वा । [न] ग्लान्यमेषां कृतपुण्यत्वात् असत् ' ' न संपद्यते — ' संपन्ने वा भवन्त्येषां स्वयमेवानुकम्पकाः' । 'आन्तरायिकधर्माणां तदानीं अनापत्तेः । तथाऽपसतॄणां इत्यतः पुराकल्पप्रज्ञपनम् । यदा त्वन्यविधा अप्येते जाताः तदोत्तरस्य सांप्रतं नैव कश्चिदुपयोगः । किमनेनेहोपनिबद्धेन ? | यद्यप्यनेन कल्पेना[धुना]ऽव्यवहारः५, तथापि नास्त्यस्योत्तरादन्यत्वं परिकरमात्रकं तदस्य यदुत्तरत्र विशेषः । तत्रेदं मन्त्रतन्त्रम् । एतावन्मात्रकमेवासीत्, द्विकमेवैतदासी (त्) । विनयवशादस्य अपरस्यात्रविधेः व्यवस्था - [न] - मित्यस्यार्थस्य ख्यापनार्थं अस्योपनिबन्धः । एवं सप्रयोजनः पुराकल्प उपदर्शितः ॥ 8 1 7 वर्तमानकल्प इदानी [ मुच्यते ] - ( ३ ) निश्रितस्य कंचिद्भिक्षं तत्रोपाध्यायतया प्रव्रज्योपसंपदौ । कंचिद्भिक्षुमिति । नावश्यं, यन्निश्रित्य प्रव्रज्या तमेवोपसंपदिति प्रदर्शनार्थं कंचित् इति वचनम् । 'कथं निश्रित्य' आह उपाध्यायतया । 'किमर्थं निश्रितस्य' इत्याह तत्र इति । प्रव्रज्योपसंपदपेक्षं । निमित्तसप्तमी चैषा । प्रव्रज्योपसंपन्निमित्तं उपाध्यायत्वेन कंचिद्भिक्षं निश्रितस्य प्रव्रज्योपसंपदा भवतः, न यथा पुराकल्पे कंचिदनिश्रितस्यैवेति । प्रव्रज्या पुनरत्र यत्तस्यां अर्हवृत्तं श्रामणेरसंवरः, तेनानुरक्ता वेदितव्याः । प्र[व] ज्या श्रामणेरसंवरश्च उभयमप्येनं निश्रितस्य । विशेषः पुनरत्र उपाध्यायादेव प्रव्रज्या, संवरः पुनरन्यत इति । निश्रितस्य निश्रयपरिग्रहे विधिमाह - ( ४ ) पृष्ट्वा प्रान्तरायिकं परिशुद्धाय पूर्वो [पाध्यायत्वेना Plate I 3a' - का]शं कुर्यात् । प्रव्रज्याया मदान्तरायकरं मातृवधादि तदान्तरायिकमंत्र अभिप्रेतम् । अतोऽसौ निश्रयः प्रव्रज्यापेक्षमान्तराषिकं पृष्ट्वा, न सन्ति चेत् अस्य ते धर्माः

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134