Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 94
________________ १ प्रव्रज्यावस्तु 7 ४७ इति यत्तस्यैतेन" संग्रहः । (५०८) असत्वे एतद् उपस्थापकः समादापयेत् इति ॥ अभावे सति एतद् उपस्थापकेन समादापयितव्यम् ।। ( ५०९ ) असंपत्तौ सांधिकं ददीरन् । यदि समादाप्यमानमपि " न संपद्यते, ततः सांघिकं देयमित्यर्थः ॥ ( ५१०) प्रभावे (सांघिकस्य) बौद्धिकं श्राशरीरगतादिति ॥ आमुक्तकमपि यत्प्रतिमायां चैत्ये वा आभरणादिभिरपि यावद्देयं अन्याभावे कः [ पुन ]र्वादोऽन्यस्येत्यर्थः ।। ( ५११) पानक छत्रारोपणादिकारान् एनमुद्दिश्य [सांधिकात् " ] कुर्युः ॥ असंपत्ताविति वर्तते, स्वस्याभावे, सांधिकात् । अस्येति सांघिकस्य (५१२) प्रभावे अस्य बौद्धिकात् । (५१३) वेयत्वं श्राभ्यां श्रार्तस्य तेनामृत्यो सति विभवे ॥ आभ्यामिति सांघिक - बौद्धिकाभ्याम्, असति 27 तु दाने दोषाभावः ॥ ( ५१४) नोपस्थायकः एनं नोपतिष्ठेत् ॥ एनमिति ग्लानम् ॥ ( ५१५) न प्रर्थ्यां श्रस्य धर्म्यं च आज्ञां विलोमयेत् ॥ अर्थ्यामिति जीवितपात्र प्रतिसंयुक्ताम् । अस्येति ग्लानस्य । धर्म्यामिति पुण्योपस्थान प्रतिसंयुक्ताम् ।। (५१६) नाध्यवसान- वस्तूपयाचितो विधारयेत् ॥ अध्यवसानवस्तु यत्र पात्रादी ग्लानस्य तृष्णा । उपयाचित इति ग्लानेन, उपस्थायक: ।। (५१७) न नाववदेत् [Plate III. 7a]' इति । ग्लानमुपस्थायकः ॥ ( ५१८) नैनं ग्लानो अतिलंघयेत् उपस्थायकेन कृतं अववादं न ग्लानो अतिक्रमेदित्यर्थः ॥ ( ५१९) सांघिकादेनं श्रसौ उपस्थायकः— मरणशंकायां शयनासनादुत्थाप्य पौदगलिके निवेशयेत ॥ ( ५२० ) अभ्यंजन- स्नपनपूर्वक ताव्याजेन इति ॥ अभ्यंजन - स्नपनपूर्वकतया व्याजभूतया निवेशयेत् इत्यर्थः । व्याजस्य अत्र प्रधानत्वात्, निदर्शनमेतद्-द्वयं वेदितव्यम् ॥ ( ५२१ ) यत्नवान् तदवस्थापरिच्छेदे स्यात् ॥ इति मरणावस्थापरिच्छेदे यस्यां शरीरावस्थायां मरणाशंका भवति तस्यामित्यर्थः । यत्नश्च अत्र मुहुर्मुहुः प्रत्यवेक्षणम् ॥ ( ५२२) तत्कार्यत्वं तत्कृतसंक्लेशानां तन्मृतचीवराणां धावनस्य । तेन ग्लानेन कृतसंक्लेशानां तन्मृतचीवराणां इति यस्यासो ग्लानस्य उपस्थायकः तस्य एव मृतस्य यदि तानि चोवराणि भवन्ति, न अन्यस्य तेषां धावनम् । तस्य उपस्थायकस्य करणीयमित्यर्थः । ( ५२३) संघस्य तत्स्थविरः संनिपाते पूर्वगमः स्यात् ।। निश्रय-निश्रितप्रकार एषः इत्येतस्मिन्नवधो संघस्थविराधिकारस्य उपन्यासः । संघस्य संनिपाते संघस्थविरः पूर्वंगमो भवेदित्यर्थः ॥ ( ५२४) गमने विलंबितं उदीक्षेत । तत्स्थविरः ॥ (५२५) तेऽपि एनमिति । येषां असो स्थविरः, तेऽपि एनं गमनविलंबितं उदीक्षेरन् ॥ (५२६) श्रनिर्गतं च दूरं गत्वा ।। (५२७) ग्रामान्ते च ॥ समीपवाची अत्र अन्तशब्द: ।। (५२८) प्रवेशश्चेत् प्रत्र अनुयान्तम् ॥ प्रवेशश्चेदभिप्रेतो अन्वागच्छन्तं एनं ग्रामान्ते उदीक्षेरन् ॥ उदीक्षमाणानां - ( ५२९) दूतश्चेत् स्यात् "आगमय यावत्स्थविर

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134