Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 98
________________ १ प्रबेज्यावस्तु पुत्रेभ्यः पादमूलिकान् ग्राहयित्वा शुद्धिकायां पर्षदि निहन्यात् ॥ ग्राहयित्वा इति बोधयित्वा । शुद्धिकापर्षद् यत्र न दण्ड्यते तत्र निहन्यात् पराजयेदित्यर्थः । कुमारादीनां तु यत्प्राग्बोधनं तदेतदर्थम् आपराजितः तदाश्रयेण नापकुर्यात् २७ इत्यर्थः॥ उक्तं प्रव्रज्यावस्तुसम्बद्ध भिक्षुगतम् ॥ (d) भिक्षुणीगतम् । भिक्षुणीगतमिदानीमुच्यते ॥ तत्र यत् प्रव्रज्योपसंपदोः 'पुरुषः' उक्तं, तदेव स्त्रियामिति अङ्गीकृत्य विशेषः आख्यायते ॥ (५८२) भिक्षुणी भिक्षुस्थाने ।। संधैकदेशभूतः [एकभू-]४ तो वा उपाध्यायारोचकादि यत्र भिक्षुरुक्तो भिक्षुणी तत्र द्रष्टव्या इत्यर्थः ।। किं सर्वस्य भिक्षोः स्थानेऽथ कस्यचिदित्याह-॥ (५८३) सर्वस्य प्रव्रज्यायाम् ॥ प्रव्रज्याविषये सर्वस्य उपाध्यायादेः भिक्षोः स्थाने भिक्षुणी प्रतिपत्तव्या। उपाध्यायिकार्थं आरोचनं, श्रामणेरीसंवरदानं इत्येतत्सर्वं भिक्षुणीभिरेव अनुष्ठातव्यम् । नास्त्यत्र भिक्षोरधिकार [इत्यस्यै]"तत्-प्रतिपादनम् । (५८४) उपसंपदि अन्यस्य तद्याचनादौ कर्मकतुः॥ उपसंपदि न सर्वस्य भिक्षोः स्थाने भिक्षुणी द्रष्टव्या। अपि तु उपसंपद्याचनादौ, यः कर्मकर्ता ततोऽन्यस्य भिक्षोः स्थाने भिक्षुणी उपसंपद्याचनात्प्रभृति कर्मकारकोऽत्र भिक्षुरेव न भिक्षुणी इति उक्तं भवति । प्राक् तु उपसंपद्याचना[याः] भिक्षुणो कर्मकारिका, याऽसौ .केवलभिक्षुणीसंघमध्ये ब्रह्मचर्योपस्थाने संवृति ददाति इति ॥ (५८५) प्रत्राच[य] संघः । अत्र उपसंपदि याचनादी भिक्षुसंघः आचयभूतः प्रतिपत्तव्यः । उभयसंघे सन्निपतिते याचनात्प्रभृति कर्म कर्तव्य'1 मित्यर्थः ।। (५८६) कथनं भिक्षुण्यान्तरितं प्रान्तरायिको स्यात् वा॥ इत्यान्तरायिककथने संघमध्ये क्रियेते-एकं केवलभिक्षुणीसंघमध्ये, ब्रह्मचर्योपस्थान-संवृतिदाननिमित्तद्वयमुभयसंघमध्ये । द्वयस्याऽपि एष विधिः प्रतिपत्तव्यः। लज्जानिमित्तमेतदुक्तम्तस्मात् कामचारविज्ञानाथं आदौ क्रियापद प्रयोगः ।। (५८७) शिक्षमाणात्वं नाम स्त्रियामपरं पर्व ॥ श्रामणेरिकात्वं भिक्षुणीत्वं इत्येतत्पर्वद्वयं पुरुषसाधारणम् । इदं तु तृतीयं अस्याः पर्व । तच्च-॥ (५८८) निश्रितायामेव ।। श्रामणेरिकात्व-भिक्षुणीत्वाभ्यां अविशेषतासंदर्शनार्थः एव'-शब्दः, यथा इमे पर्व [Plate IV Ia] 'णी। निश्रितायामेवं एतदपोति । अतश्च उपाध्यायिकात्वेन भिक्षुणी काञ्चिच्च, न तामेव यां श्रामणेरिका) इति प्रतिपत्तिः। तदेवं स्त्रियां त्रित्वमुपाध्यायस्य, पुरुषे तु द्वित्वं इति जातं भवति । कस्यामवस्थायां शिक्षमाणात्वं नाम स्त्रियां अपरं पर्व, कियन्तं वा कालं अस्य चरणं इत्याह-॥ (५८९) श्रामणेरिकात्व-भिक्षुणीत्वयोः अन्तराले वर्षद्वयचरणस्य कालः ॥ तावन्तं कालं आचरित्वेन उपसंपादनं इत्येवं कालपरि

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134