Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 102
________________ १ प्रव्रज्यावस्तु प्रति त्रयः पुद्गलाः अनुपसंपन्नाः, आत्मनो [Plate IV. 40]' नाम न आचष्टे, उपाध्यायस्य नाम नाचष्टे, उपसंपदं च न जानाति" इति ॥ कर्मकारकं प्रति अयं ग्रन्थः -"त्रयाणां नाम न परिकीर्तयति-उपाध्यायस्य, उपसंपदाक्षिणः, संघस्य च । उपसंपन्नो वक्तव्यः, अनुपसंपन्नो वक्तव्यः इति । "[आह–अनुपसंपन्नो वक्तव्य इति] । अप्रत्युपस्थापनमेतद्, गृहीतृत्वेन यदत्र समादातुः आत्मनो नामाऽनुकीर्तनम् । संघस्यैतद् प्रत्युपस्थापनम् । अनुगृहीतत्वेन यत् संघस्या नेन नामानुद्भावनम् । यद् कर्मकारकेण समादातुः तद्विषयत्वस्य उपनीतेः तदकरणम् । यत्संघस्य संघकर्तृकत्वस्य उपनीतेः तद्करणम् । यदुपाध्यायस्य कर्मकारकेण नामाऽनुद्भावनं, तदपि संघकर्तृकत्वस्यैव उपनीते:8 अकरणम् । यस्मात् यत्र कर्मणि तत्र संघस्य कर्तृत्वप्रतिपत्तिः, ततोऽन्यस्य तत्कर्मणः करणम् । यदुपाध्यायस्य समादात्रा नामानुद्भावनं, तद् यस्य कर्मणः करणं सोपाध्यायकस्य, न83 तत्र तस्य विषयत्वेन प्रत्युपस्थानम् । तदनुत्थानं एषां नामानुद्भावने संवरस्य ॥ (६२५) नाऽगारिक-तीथिकध्वजे ॥ प्रत्येकं ध्वजशब्दस्य परिसमाप्तिः। आगारिकध्वजे तीथिकध्वजे इति बहुव्रीहिश्चात्र समासः । आगारिकध्वजो ध्वजो यस्य, तीथिकध्वजो ध्वजो यस्य । आभ्यां ध्वजाभ्यां गृहीताभ्यां न भवति संवरस्योत्थानम् । वेषश्चात्र ध्वजः ॥ (६२६) न नग्नकुपित पुंफालिनीषु ॥ संवरस्योत्थानं इत्यनुषङ्गः। समादानतो नग्नीभूतस्य तीथिकध्वजः इति अनेनैव संग्रहात् । अन्यार्थं नग्नग्रहणम्, प्रमुक्तप्रग्रहत्वं अस्यामवस्थायां चित्तस्य इति संवरस्यानुत्थानम्। कुपितत्वे स्थैर्यभङ्गः। पुंफालिनी तावता भदन्ता उपसंपादयन्ति, उपसंपन्ना वक्तव्या अथ अनुपसंपन्ना? [आह]-अनुपसंपन्ना वक्तव्या। उपसंपादकाश्च सातिसारा इति । पुंफालिनी पुरः यत्संयोगात् पुरुषो म्रियते ॥ (६२७) न निमित्तविपर्ययाऽनभ्युपेतौ उत्क्षिप्तकस्य । स-दृष्टेः विरति आशयस्य संवरसंपत्तिः, तस्मात् येन निमित्तेन आपत्त्यदर्शनादिना६ उत्क्षेपणीयं कर्मकृतं भवति, तद्विपर्यय-अनभ्युपगमे नास्ति संवरस्य उत्थानम् । निदर्शनमत्र उत्क्षिप्तकः। सर्वप्रणिहितेषु एष विधिः। कलहकरणादि-आशयस्यापि अविरति-आशयत्वात् ॥ (६२८) दुष्कृतमात्रकं अपूर्व-पर्वतायाम् ॥ विना उपासकत्वेन श्रामणेरत्वोपगतो, विना श्रामणेरत्वेन भिक्षुत्वोपगतौ दुष्कृतमात्रकं भवति, न अनुत्थानं संवरस्य ॥ ग्रन्थोऽत्र-“आगारिक- अप्रव्रजितकं उपसंपादयन्ति, उपसंपन्नो वक्तव्योऽनुपसंपन्नो वक्तव्य इत्याह-उपसंपन्नः, उपालिन्, उपसंपादकाश्च आपद्यन्ते दुष्कृता' [पत्ति]मिति" ॥ (६२९-६३०) अयाञ्चायामुपाध्यायस्य अन्तरायिकयाऽप्रश्ने ॥ उभयत्र अत्र दुष्कृतमात्रकम्, न अनुत्थानं

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134