Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 101
________________ ५४ विनयसूत्रवृत्त्यभिधान-स्व-व्याख्यानम् आरोहति इत्यर्थः ।। (६१६) न ततीयस्यां परिवत्तौ व्यंजनस्य ॥ संवरस्य न क्षेत्रत्वमित्यनुबन्धः । यस्य" त्रिर्-व्यंजनं परिवर्तते, न तस्य संवरो रोहतीत्यर्थः । (६१७) न प्रथमद्वयोः ध्वस्तिरिति ॥ न प्रथमद्वितीययोः व्यंजनपरिवृत्योः ध्वंसः संवरस्येत्यर्थः । क्षुद्रकेभ्यः [Plate IV. 2a] एतद्विधिद्वयं सादृश्याद् हृष्टम् ॥ (६१८) उत्थानं गह्यमाणत्वे ॥ समादीयमानत्वे व्यंजनपरिवृत्तौ सत्यां उत्थानं संवरस्य । “उपसंपदापेक्षिणो व्यंजनं परिवर्तते --- उपसंपन्नो वक्तव्योऽनुपसंपन्नो वक्तव्यः । आह-अनुपसंपन्नो वक्तव्यः। भिक्षुभ्यो हि भिक्षुण्या उपसंपदा भिक्षुणीभावः पर्येषितव्यः" इति अत्र ग्रन्थः ॥ निदर्शनमत्र पुरुषस्य व्यञ्जनपरिवृत्तिः। निराशङ्क-तरत्वात् अन्यत्वमत्र विधेः। उपसंपद्यमानावस्थोऽत्र' उपसंपत्प्रेक्षी गृहीतः, प्राक्परिवृत्तौ भिक्षुमात्रसंनिपातस्य अयोगात् ॥ (६१९) अनुपाध्यायकतायां तद्वतः ॥ तद्वतः इति उपाध्यायवतः। संवरस्य विनाऽपि उपाध्यायेन भवति उत्थानम् ॥ (६२०) अनुपसंपन्नत्वेऽस्य ॥ उपाध्यायस्योपसंपन्नत्वेऽपि उपाध्यायवतः संवरस्य भवत्युत्थानम् ?-।। (६२१) न, जानानेऽस्य अभिक्षुत्वम् ॥ न उत्थानं उपाध्यायवतः संवरस्य जानाने समादातरि अस्योपाध्यायस्य अभिक्षुत्वं अनुपसंपन्नत्वं ध्वस्ततां वा ।। ग्रन्थोऽत्र-'उपसंपदापेक्षी स्तैन्यसंवासिकेन उपाध्यायेन उपसंपाद्यते, उपसंपन्नो वक्तव्य :, अनुपसंपन्नो वक्तव्यः ?-। आह-यदि जानीते स्तैन्यसंवासिको मे उपाध्यायः इत्यनुपसंपन्नो वक्तव्यः। यदि न जानाति, उपसंपन्नो वक्तव्यः । एवं पूर्वापन्नकेन उपाध्यायेन''''इत्यादि ॥ आदिव्यग्रकेणागारिकेण उपाध्यायेनेति । ननु च अनुपाध्यायत्वेऽपि संवरस्योत्थानम्, तत्कथं जानाने अस्याऽभिक्षुत्वं न भवति, यस्मात् विपन्नो जाना[ती]त्याशयो भवति, शीलेऽनाहतो भवति, अनर्थों वा शीलेन इत्यतः एतदुत्थानम् [इति चेत्,' तन्न]। नाजानाति अनुपाध्यायतां यावत्, तस्मात् अविरोधोऽत्र अनुत्थानस्य ॥ यत्तु उपाध्यायस्य अनुपसंपन्नत्वे संवरस्य उत्थानमुक्तं संघमधिकृत्य एतद्, संघस्यानुपसंपन्नतां जानानेन भवति उत्थानं, न उपसंपत्प्रेक्षी [इति] | (६२२) नैनं प्रत्याचक्षणे॥ संवरमुखत्वात् उपाध्यायस्य:1 तद्प्रत्याचक्षणे नास्ति संवरस्य उत्थानम् ।। ग्रन्थोऽत्र-उपसंपद्यमानः उपाध्यायं प्रत्याख्यातं उपसंपन्नो वक्तव्योऽनुपसंपन्नो वक्तव्यः ?-आह-अनुपसंपन्नो वक्तव्य] इति । (६२३) न अनयोः नाम-अनुभावने ॥ अनयोः क्षेत्रोपाध्याययोः समादात्रा "[कर्म] कारकेण वा नामानुत्कीर्तने न भवति संवरस्य उत्थानम् ॥ (६२४) न संघस्य तद्योनेः ॥ समादातृ-कर्मकारकाभ्यां अन्यतरेणाऽपि संघस्य नाम्नोऽनुद्भावने, तद्योनेः, संघयोनेः, तद्वंशस्य, संवरस्य न भवत्युत्थानम् ॥ ग्रन्थोऽत्र-“समादातारं

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134