________________
५४
विनयसूत्रवृत्त्यभिधान-स्व-व्याख्यानम् आरोहति इत्यर्थः ।। (६१६) न ततीयस्यां परिवत्तौ व्यंजनस्य ॥ संवरस्य न क्षेत्रत्वमित्यनुबन्धः । यस्य" त्रिर्-व्यंजनं परिवर्तते, न तस्य संवरो रोहतीत्यर्थः । (६१७) न प्रथमद्वयोः ध्वस्तिरिति ॥ न प्रथमद्वितीययोः व्यंजनपरिवृत्योः ध्वंसः संवरस्येत्यर्थः । क्षुद्रकेभ्यः [Plate IV. 2a] एतद्विधिद्वयं सादृश्याद् हृष्टम् ॥ (६१८) उत्थानं गह्यमाणत्वे ॥ समादीयमानत्वे व्यंजनपरिवृत्तौ सत्यां उत्थानं संवरस्य । “उपसंपदापेक्षिणो व्यंजनं परिवर्तते --- उपसंपन्नो वक्तव्योऽनुपसंपन्नो वक्तव्यः । आह-अनुपसंपन्नो वक्तव्यः। भिक्षुभ्यो हि भिक्षुण्या उपसंपदा भिक्षुणीभावः पर्येषितव्यः" इति अत्र ग्रन्थः ॥ निदर्शनमत्र पुरुषस्य व्यञ्जनपरिवृत्तिः। निराशङ्क-तरत्वात् अन्यत्वमत्र विधेः। उपसंपद्यमानावस्थोऽत्र' उपसंपत्प्रेक्षी गृहीतः, प्राक्परिवृत्तौ भिक्षुमात्रसंनिपातस्य अयोगात् ॥ (६१९) अनुपाध्यायकतायां तद्वतः ॥ तद्वतः इति उपाध्यायवतः। संवरस्य विनाऽपि उपाध्यायेन भवति उत्थानम् ॥ (६२०) अनुपसंपन्नत्वेऽस्य ॥ उपाध्यायस्योपसंपन्नत्वेऽपि उपाध्यायवतः संवरस्य भवत्युत्थानम् ?-।। (६२१) न, जानानेऽस्य अभिक्षुत्वम् ॥ न उत्थानं उपाध्यायवतः संवरस्य जानाने समादातरि अस्योपाध्यायस्य अभिक्षुत्वं अनुपसंपन्नत्वं ध्वस्ततां वा ।। ग्रन्थोऽत्र-'उपसंपदापेक्षी स्तैन्यसंवासिकेन उपाध्यायेन उपसंपाद्यते, उपसंपन्नो वक्तव्य :, अनुपसंपन्नो वक्तव्यः ?-। आह-यदि जानीते स्तैन्यसंवासिको मे उपाध्यायः इत्यनुपसंपन्नो वक्तव्यः। यदि न जानाति, उपसंपन्नो वक्तव्यः । एवं पूर्वापन्नकेन उपाध्यायेन''''इत्यादि ॥ आदिव्यग्रकेणागारिकेण उपाध्यायेनेति । ननु च अनुपाध्यायत्वेऽपि संवरस्योत्थानम्, तत्कथं जानाने अस्याऽभिक्षुत्वं न भवति, यस्मात् विपन्नो जाना[ती]त्याशयो भवति, शीलेऽनाहतो भवति, अनर्थों वा शीलेन इत्यतः एतदुत्थानम् [इति चेत्,' तन्न]। नाजानाति अनुपाध्यायतां यावत्, तस्मात् अविरोधोऽत्र अनुत्थानस्य ॥ यत्तु उपाध्यायस्य अनुपसंपन्नत्वे संवरस्य उत्थानमुक्तं संघमधिकृत्य एतद्, संघस्यानुपसंपन्नतां जानानेन भवति उत्थानं, न उपसंपत्प्रेक्षी [इति] | (६२२) नैनं प्रत्याचक्षणे॥ संवरमुखत्वात् उपाध्यायस्य:1 तद्प्रत्याचक्षणे नास्ति संवरस्य उत्थानम् ।। ग्रन्थोऽत्र-उपसंपद्यमानः उपाध्यायं प्रत्याख्यातं उपसंपन्नो वक्तव्योऽनुपसंपन्नो वक्तव्यः ?-आह-अनुपसंपन्नो वक्तव्य] इति । (६२३) न अनयोः नाम-अनुभावने ॥ अनयोः क्षेत्रोपाध्याययोः समादात्रा "[कर्म] कारकेण वा नामानुत्कीर्तने न भवति संवरस्य उत्थानम् ॥ (६२४) न संघस्य तद्योनेः ॥ समादातृ-कर्मकारकाभ्यां अन्यतरेणाऽपि संघस्य नाम्नोऽनुद्भावने, तद्योनेः, संघयोनेः, तद्वंशस्य, संवरस्य न भवत्युत्थानम् ॥ ग्रन्थोऽत्र-“समादातारं