________________
१ प्रबेज्यावस्तु
पुत्रेभ्यः पादमूलिकान् ग्राहयित्वा शुद्धिकायां पर्षदि निहन्यात् ॥ ग्राहयित्वा इति बोधयित्वा । शुद्धिकापर्षद् यत्र न दण्ड्यते तत्र निहन्यात् पराजयेदित्यर्थः । कुमारादीनां तु यत्प्राग्बोधनं तदेतदर्थम् आपराजितः तदाश्रयेण नापकुर्यात् २७ इत्यर्थः॥ उक्तं प्रव्रज्यावस्तुसम्बद्ध भिक्षुगतम् ॥
(d) भिक्षुणीगतम् । भिक्षुणीगतमिदानीमुच्यते ॥ तत्र यत् प्रव्रज्योपसंपदोः 'पुरुषः' उक्तं, तदेव स्त्रियामिति अङ्गीकृत्य विशेषः आख्यायते ॥ (५८२) भिक्षुणी भिक्षुस्थाने ।। संधैकदेशभूतः [एकभू-]४ तो वा उपाध्यायारोचकादि यत्र भिक्षुरुक्तो भिक्षुणी तत्र द्रष्टव्या इत्यर्थः ।। किं सर्वस्य भिक्षोः स्थानेऽथ कस्यचिदित्याह-॥ (५८३) सर्वस्य प्रव्रज्यायाम् ॥ प्रव्रज्याविषये सर्वस्य उपाध्यायादेः भिक्षोः स्थाने भिक्षुणी प्रतिपत्तव्या। उपाध्यायिकार्थं आरोचनं, श्रामणेरीसंवरदानं इत्येतत्सर्वं भिक्षुणीभिरेव अनुष्ठातव्यम् । नास्त्यत्र भिक्षोरधिकार [इत्यस्यै]"तत्-प्रतिपादनम् । (५८४) उपसंपदि अन्यस्य तद्याचनादौ कर्मकतुः॥ उपसंपदि न सर्वस्य भिक्षोः स्थाने भिक्षुणी द्रष्टव्या। अपि तु उपसंपद्याचनादौ, यः कर्मकर्ता ततोऽन्यस्य भिक्षोः स्थाने भिक्षुणी उपसंपद्याचनात्प्रभृति कर्मकारकोऽत्र भिक्षुरेव न भिक्षुणी इति उक्तं भवति । प्राक् तु उपसंपद्याचना[याः] भिक्षुणो कर्मकारिका, याऽसौ .केवलभिक्षुणीसंघमध्ये ब्रह्मचर्योपस्थाने संवृति ददाति इति ॥ (५८५) प्रत्राच[य] संघः । अत्र उपसंपदि याचनादी भिक्षुसंघः आचयभूतः प्रतिपत्तव्यः । उभयसंघे सन्निपतिते याचनात्प्रभृति कर्म कर्तव्य'1 मित्यर्थः ।। (५८६) कथनं भिक्षुण्यान्तरितं प्रान्तरायिको स्यात् वा॥ इत्यान्तरायिककथने संघमध्ये क्रियेते-एकं केवलभिक्षुणीसंघमध्ये, ब्रह्मचर्योपस्थान-संवृतिदाननिमित्तद्वयमुभयसंघमध्ये । द्वयस्याऽपि एष विधिः प्रतिपत्तव्यः। लज्जानिमित्तमेतदुक्तम्तस्मात् कामचारविज्ञानाथं आदौ क्रियापद प्रयोगः ।। (५८७) शिक्षमाणात्वं नाम स्त्रियामपरं पर्व ॥ श्रामणेरिकात्वं भिक्षुणीत्वं इत्येतत्पर्वद्वयं पुरुषसाधारणम् । इदं तु तृतीयं अस्याः पर्व । तच्च-॥ (५८८) निश्रितायामेव ।। श्रामणेरिकात्व-भिक्षुणीत्वाभ्यां अविशेषतासंदर्शनार्थः एव'-शब्दः, यथा इमे पर्व [Plate IV Ia] 'णी। निश्रितायामेवं एतदपोति । अतश्च उपाध्यायिकात्वेन भिक्षुणी काञ्चिच्च, न तामेव यां श्रामणेरिका) इति प्रतिपत्तिः। तदेवं स्त्रियां त्रित्वमुपाध्यायस्य, पुरुषे तु द्वित्वं इति जातं भवति । कस्यामवस्थायां शिक्षमाणात्वं नाम स्त्रियां अपरं पर्व, कियन्तं वा कालं अस्य चरणं इत्याह-॥ (५८९) श्रामणेरिकात्व-भिक्षुणीत्वयोः अन्तराले वर्षद्वयचरणस्य कालः ॥ तावन्तं कालं आचरित्वेन उपसंपादनं इत्येवं कालपरि