________________
विनयसूत्रवृत्त्यभिधान-स्व-व्याख्यानम् ग्रहो, न अत्रोवं चरितव्यमेतद् व्रतमिति । तस्मात् न पूर्णत्वेऽस्य कालस्य प्रागुपसंपत्तेः अशिक्षितव्यं अस्यां शिक्षायाम्, ध्वंसो वा अस्य संवरस्य इति प्रतिपत्तव्यम् । कोऽस्य शिक्षमाणात्व-प्ररोहस्य काल इत्याह-॥ (५९०) तदूनोपसंपत्कालाद्यादिक प्ररोहस्येति ॥ उपसंपत्कालस्यादिः । स द्वि[विधोऽस्याः । कुमारिकायाः विंशतिवर्षत्वं, गृहोषितायाः द्वादशवर्षत्वम् । तेन चरणकालेन वर्षद्वयेन ऊन-उपसंपत्कालादिना आदिः, [तदूनोपसं"पत्कालादिः] अस्य कालस्य सोऽयं काल: तदूनोपसंपत्कालाद्यादिकः । एषोऽस्य शिक्षमाणात्वप्ररोहस्य कालः। कुमारिकायाः अष्टादशत्वं वर्षाणां, गृहोषितायाः दशवर्षत्वमित्यर्थः ॥4 ग्रन्थोऽत्र भिक्षुणीविभङ्गे--"या गृहोषिता दश वर्षा, कुमारिकाभूता वा अष्टादशवर्षा । तस्याः द्वे वर्षे शिक्षा संवृतिया" इति ॥ उपसंपत्कालस्य अत्र विघौ अंगीकृतस्य विशेषः आख्यायते ॥ (५९१) द्वादशत्वं वर्षाणां उपसंपदि-ऊढतायां प्रादिः ॥ ऊढतायां कृतावाहनतया कृतविवाहतायां, द्वादशत्वं वर्षाणां उपसंपदि कालस्य आदिः ॥ (५९२) दानादुत्थानम् .। शिक्षमाणात्वस्य इत्यनुषङ्गः। केन (दा]"नादित्याह-॥ (५९३) भिक्षुणीसंघेन ॥ कथमित्याह-॥ (५९४) शिक्षासंवृतिरिति दानम् ॥ "इयं एवंनामा शिक्षासंवृति याचते, यावत्तत्संघः शिक्षासंवृतिं ददाति" इत्येवमादेः मन्त्रस्य एतदुल्लिंगनम् ॥ (५९५) अनन्तरमस्य शिक्षोत्कीर्तनम् अस्य शिक्षासंवृतिदानस्य अनन्तरं शिक्षायाः उत्कीर्तनम् -षण्णां धर्माणां, षण्णां' अनुधर्माणाम् ॥ तत्र षट् धर्माः कतमे
नै काकिनी प्रव्रजेत् मार्गम् । नदीपारं न संतरेत् ॥ न स्पृशेत् पुरुषं, तेन । नौकागारे सह स्वपेत् ॥ सांचरित्रं तु नो कुर्यात् । अवद्यं छादयेन च ॥
इत्येते शिक्षमाणायाः । षट्-धर्माः परिकीर्तिताः ।। षट् अनुधर्माः कतमे ।
जातरूपं न गृह्णीयात् । न गुह्ये रोम शातयेत् ॥ न खनेत् पृथिवीं चाऽपि। न च्छिन्द्यात् हरितं तृणम् ॥ नाऽप्रतिग्राहितं स्वादेत् । स्वादेत्संनिहितं न च ।।
उक्ता इमेऽनुधर्माः षट् । शिक्षमाणेषु शिक्षणात् ।। (५९६) न अलब्धब्रह्मचर्योपस्थान-संवृतेः उपसंपद् ।। उपसंपद् अत्र ब्रह्मचर्यम्, तस्योपस्थानं उपजननं, ब्रह्मचर्योपस्थानाय संवृतिः ब्रह्मचर्योपस्थानसंवृतिः,सा न लब्धा यया सा इयं अलब्ध ब्रह्मचर्योपस्थानसंवृतिः, तस्याः । उपसंपद् न भवति, [यस्मात्] 7 उपसंपदार्था सैषां संवृतिः। क्षेत्रतायां नियमनं इत्यतो अस्यां अ