Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 97
________________ विनयसूत्रवृत्त्यभिधान-स्व-व्याख्यानम् (५६४) दान-दम-संयम-ब्रह्मचर्यवासोपोषध-शरण-गमन-शिक्षापदग्रहणेषु एनान्नियुजीत ॥ एनानिति गृहिणः । दमो वशीकरणम्, वशीकृतत्वं चेन्द्रियाणां कायवाचोश्च संयमोऽविसरणं एषाम् , विनयनं विनियतावस्थानम् । ब्रह्मचर्यवासश्च इति प्रवजितवृत्तम् , गृहित्वे च यावज्जीविका ग्राम्यधर्मात् प्रतिविरतिः ॥ (५६५) सर्वत्र - आपत्तिमुखभूते प्रस्थाने स्मृतः प्रतिपद्येत ॥ स्मृत इति आपत्तिषु इत्यर्थात् गतिः। कुल[प्रवे] शादौ यद्गमनादिप्रस्थानं आपत्ति-उत्थानद्वारभूतं, तत्र तथा स्मृतिरुपस्थाप्या यथा न किंचिदापद्यते ॥ (५६६) न न-शिष्टः अनुगम इति ॥ प्रतिपद्येत इत्यनुषङ्गः । नानुशिष्टोऽयं अनुबद्धः, तेन न प्रतिपद्यत। न विलङ्घयेत अस्यानुशासनीमित्यर्थः ।। (५६७) एहि इति स्वागतपूर्व-प्रियालाप्यभिगते स्यादिति। एहि इति स्वागतालापी पूर्व च आगतालपनात् प्रियालापी स्यादित्यर्थः । [अभि]गते' इति गृहिणि प्रवजिते वा ॥(५६८) उत्तानमुखवर्णः ॥ इति अगहनायमानः ॥ (५६९) स्मितपूर्वगम इति ॥ स्मितेन प्रथमं गन्ता, सांमुख्यस्य दाता इत्यर्थः ॥ भवति सान्तरेऽपि प्रस्थाने सस्मि. . तत्वमिति, आह-॥ (५७०) विगतभ्र कुटि:: ॥ (५७१) गृही चेदभ्यागतः, धा अस्मै कथां कुर्यात् ॥ (५७२) [अनागच्छति पत्र प्रामान्तिकः संरंजनीयं यथाशाक्ति प्रवर्तयेत् ॥ [अनागच्छति इति गृहिणि । ग्रामान्तिको भिक्षुः । संरंजनीयं भोजनादिना] ' यथाशक्ति प्रवर्तयेत् ॥ (५७३) पानीयाऽसनमुपस्थापयेत् ॥" आरण्यकेऽपि, पानीयं आसनं चेति विग्रहः ॥ (५७४) संमार्ग-शयनासनप्रज्ञग्नपानीयस्थापन-चारण-भक्तनिःसर्गान् नवकः कुर्यात् ॥ यत्र तत्र समागमे समागमे सर्वमेतत्तेन नवकेन कर्तव्यम् ।। (५७५) उपगच्छेत् विलोमा परिजनक्रियां, न चेत् स्व-परोपघाताय ॥ उपगच्छेदिति अध्युपेक्षेत। न चेत् अभ्युपगम्यमाना आत्मनः परेषां वा उपधाताय भवति ॥ (५७६) अस्मै चेत् ॥ परिजनस्य सा क्रिया [Plate IV. 1b]' उपघाताय चेत् ॥ शक्ती सत्यां समुच्छिद्य एनां-विलोमा क्रियां अन्याम् ॥ धयां-॥ क्रियाम् ॥ उत्पाद्य तथा-॥ परिजनं ॥ संज्ञापयेत् ॥ (५७७) भङ्गेऽप्ररोगे वा तन्निदानं परिजनस्य प्रतिसंस्करणम् ।। इति तस्यां धायां क्रियायां उत्पाद्यमानायां तस्य परिजनस्य यदि चित्तभङ्गो भवति दुर्मनस्कताऽप्ररोगे वा अन्येन प्रक्रमणं तस्य प्रतिसंस्करणम् । तथा दानादिना प्रतिसंस्कर्तव्यम् । परिजने यथाऽस्य एतद् द्वयं न भवतीति ॥ (५७८) अशक्तत्वे अन्येन प्रक्रमणम् ॥ इति समुच्छेत्तुमशक्तत्वे अन्येन प्रक्रमितव्यम् ।। (५७९) न तु तत्प्रत्ययं विगृह्य-॥ परिजनस्य ।। ब्रूयात् ॥(५८०) संघारामेऽपराध्यन्स्तथा कुर्याद्यथा स्वयं ग्राहिकया ग्रहणं गच्छेत् ।। (५८१) अगच्छन्तमनारोच्य सहसा कस्यचित् कुमार-मित्र-अमात्य-भट्ट राज

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134