Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 95
________________ ४८ विनयसूत्रवृत्त्यभिधानव्याख्यानम् प्रागच्छति" इति ब्रूयुः ॥ एनमिति दूतम् ॥ (५३०) पाण्युदकवाने च गतत्वे अभ्य"वहाराय अस्ति चेत्कालः इति । गतत्वे भोजनाय पानकाय वा पाण्युदकदानवेलायां यदि विलम्बमानानां कालोऽस्ति, ततो दूतमेनं ब्रयुः-"आगमय यावत् संघस्थविर आगच्छति" इति ।। (५३१) असति अत्र उपवेशे अस्यासनं मुञ्चेरन् । असति उदीक्षणकाले भोजनादि-उपवेशे संघस्थविरस्य आसनं मोक्तव्यम् । (५३२) संनिषण्णताया (बहिश्च प्र] 'त्यवेक्षेत ॥ संनिषण्णः अन्तगृहे, बहिः इति आश्रमपदात् ॥ अनयोः अवस्थयोः प्रत्यवेक्षणं संघस्थविरेण कर्तव्यम् ॥ माऽत्र कश्चित् दुष्प्रावृतो अनिवस्तो वा इत्येदर्थ-॥ (५३३) दुष्प्रावृतत्वे दुनिवस्ततायां वा सौष्ठवार्थ अनयोः निमित्तं अस्मै कुर्वीत ॥ अनयोः इति दुष्प्रावृतता-दुर्निवस्ततयोः। निमित्तमस्मै इति योऽसौ दुष्प्रावृतो दुनिवस्तो वा ॥ (५३४) अप्रतिवेधे अनन्तरेण कारयेत् ॥ यदि असौ दुनिवस्तः संघस्थविरेण क्रियमाणं निमित्तं न प्रतिविध्यति, ततो यस्तस्याऽनन्तरः तेन कारयेत् ॥ (५३५) असंपत्तौ स्वयम् ॥ एवमपि सौष्ठवकारणस्य असंपत्तौ स्वयमेव कारयेत् । निमित्तस्य अप्रतिवेधे वचनेन कारयेत् ॥ (५३६) न एनान् सं [ला]पयेत् नवकान् ॥ येषां स तत्र संघस्थविरः-।। (५३७) यत्रैषां विहा-[Plate III. 8b] 'रारण्ययोः वृत्तिः तवृत्तं ग्राहयेत [नियुञ्जीत च ॥ येषामिति नवकानाम् । तवृत्तमिति विहारवृत्तं अरण्यवृत्तं च । नियुञ्जीत चेति, न केवलं तद्वृत्तं ग्राहयेत्, अपि तु तस्य वृत्तस्यानुष्ठाने नियोगोऽपि एषां कार्यः । (b) पश्चात्-श्रमणः (५३८) प्रागन्तुकः प्रत्यवेक्ष्य प्रा[वा] सिकानां प्रारोचयेत् शयनासनार्थम् ।। शयनासनाथं आगन्तुकसंघस्थविरः प्रत्यवेक्षेत, येषां असो संघस्थविरः आवासिकानां, आरोचयेत् शयनासनार्थम् ॥ (५३९) गमिको दिक-सार्थ-प्रावास-शयनासन सहायकांश्चग्लान्ये न-सहायित्वेन तोलयित्वा प्रक्रमेत् ॥ गमिकः संघस्थविरः । गमिकानामिति अर्थात्प्रतिपत्तिः यस्यां दिशि गन्तव्यं येन सार्थेन मार्गेण च य आवासः तत्र च गतस्य शयनासनं तद् सर्वं बुद्ध्या युक्तायुक्ततया संतोल्य, सहायकांश्च ग्लान्ये सति न केनचित् कश्चित्परित्यक्तव्यः, इत्येवं तोलयित्वा ततो यथाभिमतस्थानसंपादनाथ प्रक्रमेदित्यर्थः ॥ (५४०) सर्व पश्चात् मा कस्यचित् किंचित् प्रमुषितमिति अपेत्य प्रादूरं उत्स्मारयेत् ॥ संघस्थविर एव । (५४१) अनुद्धतान् अनुन्नड्डत्वे न[व] कान् प्रतिष्ठापयेत् ॥ अनुपशमः औद्धत्यम्, स्तब्धत्वं [उन्नडत्वं], तद्विपर्यये प्रतिष्ठापये"दित्यर्थः । (५४२) कुशलं च उपगतान् सर्वः सर्वान् इति । अनुद्धताननुन्नड्डत्वे प्रतिष्ठापयेत् इत्यनुषङ्गः । न गमिकः स्थविर एव, अपि तु अन्येऽपि । न च नवकानेव अपि

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134