Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 93
________________ विनयसूत्रवृत्त्यभिधानव्याख्यानम् संपत्तौ च उद्योगः ॥ यथा निश्रितस्य एतद्-द्वयं संपाद्यते तथा निश्रयेण उद्योग: करणीयः । सोऽप्येतद् अस्मै कुर्यात् इति [चतु: "]-अतिक्रान्तात्सूत्रात् निश्रितेनापि नि[श्रयस्य] एतद्-द्वयसंपत्ती उद्योगः कर्तव्यः इति प्रतिपत्तव्यम् ॥ (५००) साधविहारीअन्तेवासिक-उपाध्याय-प्राचार्य-समानोपाध्याय-समानाचार्य-पालप्तक- संलप्तकसंस्तुतक-सप्रेमकं ग्लानमुपतिष्ठेत् ॥ आलप्तको हि नाम प्रियतां आलपनादि-प्रियाचरणेन उपनीतः । संलप्तको येन साधं अस्य विश्वस्तकस्य कालेन कालं संलापो वर्तते । संस्तुतको येन साधं अस्य एकत्र [स्थान-"] गमनादिना संस्तवोपगमनात् अङ्गाङ्गीभावो जातः। सप्रेमको यद् दृष्ट्वा श्रुत्वा वा विनाऽङ्गाङ्गीभावेन प्रीतिमात्रकमुत्पन्नम् ॥ (५०१) पूर्व क्रियाऽभावे उत्तर इति ॥ साधविहारो-अन्तेवास्यादीनां पूर्वेण उपस्थानकरणस्याभावे उत्तर-उत्तरः उपतिष्ठेत् । साधंविहारिणा उपस्थानकरणस्याऽभावे अन्तेवासिकः उपतिष्ठेत्, तेन उपाध्यायः, तेन आचार्य इत्यादि । गुरुत्वात् उपाध्या-[Plate III. 7b] 'यस्य ततः पूर्वयोः प्रथम अर्हत्वं, आचार्याच्च अन्तेवासिकस्य, सार्धाविहारिणो अन्तेवासिकात् । अतश्च प्रत्यासन्नतरत्वात् क्षिप्तस्य पूर्वस्य प्रथमं अर्हत्वम् ॥ (५०२) पाठाचार्यस्यापि अत्र गृहीतता ॥ इत्याचार्यग्रहणेन च ॥ (५०३) साह्ये अशक्तो निश्रितं येन प्रवत्तिः ॥ साह्य इति ग्लान्यस्य अनेकत्र उपस्थेये। अशक्तौ इति यद्येकतः अपि उपस्थातुमशक्तिः, ततो निश्रितमुप[तिष्ठे"]दित्यर्थः। कतमं निश्रितमित्याह-येन प्रवृत्तिः, यमापृष्ट्वा करणीयं करोति । अन्तरा, यदा यस्य येन अतिपत्तिः, तदा तस्मिन् प्रवर्तितव्यम् । अत्ययकारिणां अतिपत्तौ, सर्वमुत्सृज्य इत्यर्थात् गन्तव्यम् ॥ (५०४) प्रवजितवत् अत्र प्रारब्ध-तल्लिङ्गः ॥ अत्रेति ग्लानोपस्थानविषयत्वे, यः प्रव्रज्या) मुण्डनादिना वेषमात्रेण योजितः नाद्यापि प्रवाजितः स प्रवजितवत् द्रष्टव्यः । यथा प्रवजितस्योपस्थानं तथा तस्य ग्लानस्य कर्तव्यमित्यर्थः ॥ (५०५) न ग्लानं सब्रह्मचारिणं अभ्युपेक्षेरन् ॥ (५०६) उपास्थायकं अस्य प्रभावे ददोरन् प्राऽन्तात् ॥ अभाव इति सार्धविहार्यादेः । कुतो यावद्देयम् इत्याह-आऽन्तात् इति । यदि दत्तेनाऽपि एकेन अभावो भवति उपस्थायकस्य, तेन अशक्त्या संभावनकार्य: असद्भावात् अपरं ददीरन् । एवं यावत्पर्यन्तभूतः संघस्य इत्यर्थः। “सर्वस्याभावे संघेन उपस्थायको देयो ग्लानावस्थां परिच्छिद्य, एको वा द्वौ वा संबहुला वा, अन्ततः सर्वसंघेन उपस्थापनं करणीयम्"-इत्यत्र ग्रन्थः ।। [भैषज्यप्रतिशरणत्वात्-] (५०७) कल्पते भैषज्यं संघतः केवलस्य ग्लानस्य परिमोग इति ॥ मुण्डगृहपतिद्रव्ये भैषज्यं [य]" तत्साधिकायां ग्लानकोष्ठिकायां स्थापयितव्यम्, ग्लानैः भिक्षुभिः परिभोक्तव्यं

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134