________________
विनयसूत्रवृत्त्यभिधानव्याख्यानम् संपत्तौ च उद्योगः ॥ यथा निश्रितस्य एतद्-द्वयं संपाद्यते तथा निश्रयेण उद्योग: करणीयः । सोऽप्येतद् अस्मै कुर्यात् इति [चतु: "]-अतिक्रान्तात्सूत्रात् निश्रितेनापि नि[श्रयस्य] एतद्-द्वयसंपत्ती उद्योगः कर्तव्यः इति प्रतिपत्तव्यम् ॥ (५००) साधविहारीअन्तेवासिक-उपाध्याय-प्राचार्य-समानोपाध्याय-समानाचार्य-पालप्तक- संलप्तकसंस्तुतक-सप्रेमकं ग्लानमुपतिष्ठेत् ॥ आलप्तको हि नाम प्रियतां आलपनादि-प्रियाचरणेन उपनीतः । संलप्तको येन साधं अस्य विश्वस्तकस्य कालेन कालं संलापो वर्तते । संस्तुतको येन साधं अस्य एकत्र [स्थान-"] गमनादिना संस्तवोपगमनात् अङ्गाङ्गीभावो जातः। सप्रेमको यद् दृष्ट्वा श्रुत्वा वा विनाऽङ्गाङ्गीभावेन प्रीतिमात्रकमुत्पन्नम् ॥ (५०१) पूर्व क्रियाऽभावे उत्तर इति ॥ साधविहारो-अन्तेवास्यादीनां पूर्वेण उपस्थानकरणस्याभावे उत्तर-उत्तरः उपतिष्ठेत् । साधंविहारिणा उपस्थानकरणस्याऽभावे अन्तेवासिकः उपतिष्ठेत्, तेन उपाध्यायः, तेन आचार्य इत्यादि । गुरुत्वात् उपाध्या-[Plate III. 7b] 'यस्य ततः पूर्वयोः प्रथम अर्हत्वं, आचार्याच्च अन्तेवासिकस्य, सार्धाविहारिणो अन्तेवासिकात् । अतश्च प्रत्यासन्नतरत्वात् क्षिप्तस्य पूर्वस्य प्रथमं अर्हत्वम् ॥ (५०२) पाठाचार्यस्यापि अत्र गृहीतता ॥ इत्याचार्यग्रहणेन च ॥ (५०३) साह्ये अशक्तो निश्रितं येन प्रवत्तिः ॥ साह्य इति ग्लान्यस्य अनेकत्र उपस्थेये। अशक्तौ इति यद्येकतः अपि उपस्थातुमशक्तिः, ततो निश्रितमुप[तिष्ठे"]दित्यर्थः। कतमं निश्रितमित्याह-येन प्रवृत्तिः, यमापृष्ट्वा करणीयं करोति । अन्तरा, यदा यस्य येन अतिपत्तिः, तदा तस्मिन् प्रवर्तितव्यम् । अत्ययकारिणां अतिपत्तौ, सर्वमुत्सृज्य इत्यर्थात् गन्तव्यम् ॥ (५०४) प्रवजितवत् अत्र प्रारब्ध-तल्लिङ्गः ॥ अत्रेति ग्लानोपस्थानविषयत्वे, यः प्रव्रज्या) मुण्डनादिना वेषमात्रेण योजितः नाद्यापि प्रवाजितः स प्रवजितवत् द्रष्टव्यः । यथा प्रवजितस्योपस्थानं तथा तस्य ग्लानस्य कर्तव्यमित्यर्थः ॥ (५०५) न ग्लानं सब्रह्मचारिणं अभ्युपेक्षेरन् ॥ (५०६) उपास्थायकं अस्य प्रभावे ददोरन् प्राऽन्तात् ॥ अभाव इति सार्धविहार्यादेः । कुतो यावद्देयम् इत्याह-आऽन्तात् इति । यदि दत्तेनाऽपि एकेन अभावो भवति उपस्थायकस्य, तेन अशक्त्या संभावनकार्य: असद्भावात् अपरं ददीरन् । एवं यावत्पर्यन्तभूतः संघस्य इत्यर्थः। “सर्वस्याभावे संघेन उपस्थायको देयो ग्लानावस्थां परिच्छिद्य, एको वा द्वौ वा संबहुला वा, अन्ततः सर्वसंघेन उपस्थापनं करणीयम्"-इत्यत्र ग्रन्थः ।। [भैषज्यप्रतिशरणत्वात्-] (५०७) कल्पते भैषज्यं संघतः केवलस्य ग्लानस्य परिमोग इति ॥ मुण्डगृहपतिद्रव्ये भैषज्यं [य]" तत्साधिकायां ग्लानकोष्ठिकायां स्थापयितव्यम्, ग्लानैः भिक्षुभिः परिभोक्तव्यं