Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 91
________________ विनयसूत्रवृत्त्यभिधानव्याख्यानम् ऊध्वं निश्रित-प्रतिपत् अधिकृता वेदितव्या ॥ (४४७) अतोऽनन्तरं काल्यं उपसंक्रम्य वन्दनम् । अतः इति कायकरणीयानुष्ठानान्तरात् चैत्यवन्दनात् नियतम् । निश्रितस्य स्वास्थ्यकल्ये कायकरणीयानुष्ठानं, इत्यतः काल्यतरं निश्रयस्य इति प्रतिपत्तव्यम् । परिशुद्ध-आस्येन वन्दनस्य अग्रत्वे इष्टव्यत्वात् । अ[Plate III. 6b] 'न्यथा निश्रितस्य विघातजातेः । न च मन्तव्यं-उषाटुक दन्तकाष्ठोपनामनं (See No.449 below) इत्यनेनास्य विरोधः इति, ग्लानादौ अवकाशसद्भावात् ।। (४४८) वार्ता पच्छनम् । (४४९) उषाटुकदन्तकाष्ठोपनामनम् ॥ (४५०) महानसं अवलोक्य प्रारोचनम् ॥ इति यत्तत्र उपकल्पितमनुपानं तस्य आरोचनस्य-॥ (४५१) प्रियस्य उपनाम्यत्वेन मनसिकरणम् ॥ इति आरोचिते यत्रासौ प्रीति संदर्शयति तस्य २प्रियस्य उपनामयिष्यामि अस्येदं इत्येवं मनसिकरणम् ॥ (४५२) पात्रनिर्मादनम् ॥ (४५३) पिण्डपातिकश्चेत् निश्चयो भवति रावकस्य च ॥ रवक्षरक-द्वितीय-नाम्नः निर्मादनम्, रैति शब्दं करोतोति रावकः॥ (४५४) सप्रयोजनं चेत् परिस्रावणस्यापि ॥ निर्मादनमिति संबंधः । प्रयोजनं पुनः कदाचित् बहिरेव भोक्तव्यं भवति । [तदपि भवति चेत् प्रष्टव्यम्] ॥ (४५५) सोऽपि चेत् प्रश्नः ॥ पिण्डपातिको भवति, ततः पिण्डपात-प्रवेशार्थं साह्य-असाह्य-प्रवेशाभ्यां किमस्य अभिरुचितमिति ज्ञानार्थं प्रश्नः ॥ (४५६) साह्यं चेत् ॥ निश्रयस्य निश्रितेन सह प्रवेशे ॥-अभिरुचितं तेनैव निश्रयेन सह प्रवेशः ।। (४५७) विषमादौ पुरतो गतिः ॥ (४५८) प्रणोतस्य तस्मै च परिणामनम् ॥ यदि प्रणीतः पिण्डपातो लभ्यते, तस्मै परिणामयितव्यो अस्मै देहीति ॥ (४५९) असहः चेत्-॥ इति प्रवेशः ॥- आगत्य उपदर्शनम् ॥ [इति] पिण्ड कस्य । [कीदृशं परिणामयितव्यं इति चेत्'-1](४६०) वरतरस्य उपनामनम् यत्तत्र प्रपीतखाद्यभोजनं भवति, तन्निश्रयाय उपनामयितव्यं गृहाण इति ॥ (४६१) मात्रज्ञोऽसौ सर्वत्र स्यात् ॥ (इति) निश्रयः ॥ (४६२-४६३) उवकस्थालकपूर्णम् ॥ कालारोचनम् ॥ इति भोजन-कालस्य ॥ (४६४) भुक्ते पात्राविनिर्मादनम् ।। (४६५) स्थापनमस्य ॥ निर्मादितस्य पात्रादेः॥ (४६६-४७१) चैत्याभिवन्दनायां उषाटुकोदकाद्युपनय:॥ पाद प्रक्षालनगतानुष्ठानम् ॥ शयनासनप्रज्ञपनम् ॥ प्रतिनिवासनार्पणम् ॥ निवासनग्रहणम् ॥ पादोदकाधिष्ठानकठिल्ल-उपनामनम् ॥ पादशब्दस्य उदकाधिष्ठानाभ्यां प्रत्येकं अभिसंबंधः । पादोदकपादाधिष्ठानां कठिल्लानां उपनामनम् ॥ (४७२-४७४) उपानत्-प्रोञ्छनम् ॥ असम्मतं उत्थानकारकत्वेन गृहीतसंमार्जनीकं दृष्ट्वा अल्पोत्सुकं कुर्यात् ॥ गृहोत-सूचीकं च प्रसम्मतं चीवरसेवकत्वेन ॥ दृष्ट्वा अल्पोत्सुकं कुर्यात् इति वर्तते । सम्मतं तु उत्थानकारकत्वेन

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134