Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 90
________________ १ प्रवज्यावस्तु पूर्वप्रमाणस्य, बहुश्लेष्मणे दन्तकाष्ठ [Plate III. 5a]' स्य प्रमाणम् । ग्रन्थोऽस्मिन्"अत्रान्तरान्मध्यम्, अपि तु ये बहुश्लेष्माणः तैः चतुरंगुलविनिर्मुक्तं दन्तकाष्ठं विसर्जयितव्यम्" इति । (४२९) न अयुक्तत्वं विसर्जनस्य लयने कठिल्लकस्योपरि ॥ विसर्जनस्य इति प्रकृतत्वात् दन्तकाष्ठविसर्जनस्य ॥ (४३०) नाऽसंपत्तिः अत्र गुप्ते प्रनाडीमुखे ॥ अत्र दन्तकाष्ठविसर्जने प्रनाडीमुखे गुप्तिः प्रतिच्छन्नता संपद्यत एव इत्यर्थः ।। (४३१) हस्तसामं तकस्य अत्र एवं-जातीयके संभाव्यत्वम् ॥ अत्रेति प्रनाडीमुखे । एवं-जातीयके इति दन्तकाष्ठविसर्जनजातीयके, पादधावनादौ करणीये। हस्तसामन्तकस्य संभाव्यत्वं न हस्तसामन्तकात् परेण दन्तकाष्ठविसर्जनादि कर्तव्यमित्यर्थः ॥ (४३२) जिह्वामस्य अनुनिलिखेत् । अस्येति दन्तकाष्ठविसर्जनस्य । (४३३) उपस्थापयेत् जिह्वानिर्लेखनिकाम् ॥ (४३४) सूचीद्रव्यम् ॥ सूचीपुटारे क्रियते रैति-ताम्र-अयः-कांसः तद्रूपैः इत्यर्थः । (४३५) कल्पते प्रत्रार्थे दन्तकाष्ठविदलः ॥ अत्रार्थे इति जिह्वानिर्लेपनार्थे । (४३६) परस्परं अस्याऽतीक्ष्णतायै धृष्टिः ॥ परस्परमिति अन्योन्यम्, अस्येति । दन्तकाष्ठविदलस्य ॥ (४३७-४३८) न तीक्ष्णेन दन्तं जिह्वा कणं चोद्धृषेत् ॥ न अशनैः ॥ शनैः उद्धृषदित्यर्थः । (४३९) अबाधयन्तं मांसम् ॥ इति दन्तमां सादि । (४४०)-न अप्राक्षाल्य दिग्धं मुखमलेन प्रदेशं [अनवगुण्ठ्य वा पांशुना दन्तजिह्वयोः पवनं छोरयेत् ॥ दन्तकाष्ठस्य पवनं छोरयेत् इत्यनेन संबंधः। असंभवे अम्भसः अनवगुण्ठ्य वा पांशुना दन्तजिह्वयोः पवनं छोरयेत् । पवनं पुनः अनयोः यथाक्रमं दन्तकाष्ठं विदलं च ॥ (४४१) न विशब्द्येति ॥ यथोक्तं द्वयं छोरयेत् ॥ (४४२) निदर्शनमेतद् ॥ विशब्दनस्य दन्तजिह्वयोः५ पवनं, अन्यदपि अनेन आक्षिप्तमित्यर्थः । निदर्शनेन यदाक्षिप्तं तद्दर्शयति-॥ (४४३) उच्चार-प्रस्राव-खेट-सिंघाणक-वान्त-विरिक्तमप्यन्यच्च ॥ भवति अखेटभूतं वान्तं, विरिक्तं वानुच्चारभूतम्,-तद्यथा नासाविरेके अतिसारिणश्च, यथा पीतनिर्गमे। तस्मात् उच्चार-खेटाभिधाने सत्यपि वान्त-विरिक्त-ग्रहणम् । उच्चारादिषु अतिरिक्त[स्य सर्वस्य उपसंग्रहार्थं अन्यच्च-इतिवचनम् ॥ (४४४) निर्मादनस्य अतोऽपि संपत्तिः ॥ उषाटुक-गोमयादपि ॥ इति दन्तकाष्ठविसर्जनात् । उषाटुक-गोमयादपि संपत्तिः-। "दन्तकाष्ठस्य अलाभे गोमयेन उषाटुकेन च मुखं शोधयितव्यम्" इत्यत्र ग्रन्थः। (४४५) चैत्यं अनन्तरं कायकरणीयानुष्ठानात् वन्देत ॥ दन्तकाष्ठविसर्जनानन्तरं यत्करणीयानुष्ठानं, तस्मात्-॥ (a) निश्रितप्रतिपद् (४४६) अथ निश्रित-प्रतिपत् ॥ अथ-शब्दोऽधिकारार्थः नानन्तर्यार्थः। इत

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134