________________
१ प्रवज्यावस्तु
पूर्वप्रमाणस्य, बहुश्लेष्मणे दन्तकाष्ठ [Plate III. 5a]' स्य प्रमाणम् । ग्रन्थोऽस्मिन्"अत्रान्तरान्मध्यम्, अपि तु ये बहुश्लेष्माणः तैः चतुरंगुलविनिर्मुक्तं दन्तकाष्ठं विसर्जयितव्यम्" इति । (४२९) न अयुक्तत्वं विसर्जनस्य लयने कठिल्लकस्योपरि ॥ विसर्जनस्य इति प्रकृतत्वात् दन्तकाष्ठविसर्जनस्य ॥ (४३०) नाऽसंपत्तिः अत्र गुप्ते प्रनाडीमुखे ॥ अत्र दन्तकाष्ठविसर्जने प्रनाडीमुखे गुप्तिः प्रतिच्छन्नता संपद्यत एव इत्यर्थः ।। (४३१) हस्तसामं तकस्य अत्र एवं-जातीयके संभाव्यत्वम् ॥ अत्रेति प्रनाडीमुखे । एवं-जातीयके इति दन्तकाष्ठविसर्जनजातीयके, पादधावनादौ करणीये। हस्तसामन्तकस्य संभाव्यत्वं न हस्तसामन्तकात् परेण दन्तकाष्ठविसर्जनादि कर्तव्यमित्यर्थः ॥ (४३२) जिह्वामस्य अनुनिलिखेत् । अस्येति दन्तकाष्ठविसर्जनस्य । (४३३) उपस्थापयेत् जिह्वानिर्लेखनिकाम् ॥ (४३४) सूचीद्रव्यम् ॥ सूचीपुटारे क्रियते रैति-ताम्र-अयः-कांसः तद्रूपैः इत्यर्थः । (४३५) कल्पते प्रत्रार्थे दन्तकाष्ठविदलः ॥ अत्रार्थे इति जिह्वानिर्लेपनार्थे । (४३६) परस्परं अस्याऽतीक्ष्णतायै धृष्टिः ॥ परस्परमिति अन्योन्यम्, अस्येति । दन्तकाष्ठविदलस्य ॥ (४३७-४३८) न तीक्ष्णेन दन्तं जिह्वा कणं चोद्धृषेत् ॥ न अशनैः ॥ शनैः उद्धृषदित्यर्थः । (४३९) अबाधयन्तं मांसम् ॥ इति दन्तमां सादि । (४४०)-न अप्राक्षाल्य दिग्धं मुखमलेन प्रदेशं [अनवगुण्ठ्य वा पांशुना दन्तजिह्वयोः पवनं छोरयेत् ॥ दन्तकाष्ठस्य पवनं छोरयेत् इत्यनेन संबंधः। असंभवे अम्भसः अनवगुण्ठ्य वा पांशुना दन्तजिह्वयोः पवनं छोरयेत् । पवनं पुनः अनयोः यथाक्रमं दन्तकाष्ठं विदलं च ॥ (४४१) न विशब्द्येति ॥ यथोक्तं द्वयं छोरयेत् ॥ (४४२) निदर्शनमेतद् ॥ विशब्दनस्य दन्तजिह्वयोः५ पवनं, अन्यदपि अनेन आक्षिप्तमित्यर्थः । निदर्शनेन यदाक्षिप्तं तद्दर्शयति-॥ (४४३) उच्चार-प्रस्राव-खेट-सिंघाणक-वान्त-विरिक्तमप्यन्यच्च ॥ भवति अखेटभूतं वान्तं, विरिक्तं वानुच्चारभूतम्,-तद्यथा नासाविरेके अतिसारिणश्च, यथा पीतनिर्गमे। तस्मात् उच्चार-खेटाभिधाने सत्यपि वान्त-विरिक्त-ग्रहणम् । उच्चारादिषु अतिरिक्त[स्य सर्वस्य उपसंग्रहार्थं अन्यच्च-इतिवचनम् ॥ (४४४) निर्मादनस्य अतोऽपि संपत्तिः ॥ उषाटुक-गोमयादपि ॥ इति दन्तकाष्ठविसर्जनात् । उषाटुक-गोमयादपि संपत्तिः-। "दन्तकाष्ठस्य अलाभे गोमयेन उषाटुकेन च मुखं शोधयितव्यम्" इत्यत्र ग्रन्थः। (४४५) चैत्यं अनन्तरं कायकरणीयानुष्ठानात् वन्देत ॥ दन्तकाष्ठविसर्जनानन्तरं यत्करणीयानुष्ठानं, तस्मात्-॥
(a) निश्रितप्रतिपद् (४४६) अथ निश्रित-प्रतिपत् ॥ अथ-शब्दोऽधिकारार्थः नानन्तर्यार्थः। इत