________________
विनयसूत्रवृत्त्यभिधानव्याख्यानम् असंभोगः, प्रारब्धकुशलपक्षसमुच्छेदो, निश्रयप्रतिप्रधभणं च ॥ अश्रद्धस्य एतदर्हत्वं, कुसीवस्य, दुर्वचसो, नाहतस्य, पापमित्रस्य च ॥ अवसादनाहत्वमेव ॥ (४१०) अवसादितसंग्रहे अन्यस्य स्थूलात्ययः ॥ एवमपि क्रियमाणे यदि असौ क्षमाणे आदरं न कुरुते, तत्र किं कर्तव्यम्-(४११) अनादृतौ भिक्षोः प्रगुणीकरणाय प्रयोगः अभिज्ञस्य ॥ कीदृशस्येत्याह-अभिज्ञस्य, यस्तत्प्रगुणीकरणाय अभिज्ञः तस्य ॥ (४१२) त्यक्त निमित्तस्य क्षमणं क्षमयतः ॥ येन निमित्तेन अवसादितः, तस्य परित्यागे क्षमणम् । न च एवमेव, किं तर्हि, क्षमयतः-॥ (४१३-४१५) न अनर्हमवसादयेत् ॥ न अहंस्य न क्षमेत ॥ न अनहस्य क्षमेत ॥ सर्वथा ॥ (४१६-४१८)३ निष्कासनं अक[र]णीयतायां लयनात् ॥ परित्रावण-कुण्डिके दत्वा सान्तरोत्तरं च श्रामणेरस्य ॥ उपसंपत्प्रेक्षश्चेत् पञ्च परिष्कारान् ॥ दत्वा निष्कासनमिति अनुबन्धः । परिस्रावणस्य प्रागेव उक्तत्वात्, यदितिनोक्तं (त्रि) चीवरं निषदनं पात्रं चेति पञ्च ॥ (४१९) उपसंपन्नस्य च ॥ पञ्चपरिष्कारानित्यनुबन्धः ॥ (४२०-४२१) न सिंहनिष्ठरो भवेत् ॥ न विघातसं वर्तनं क्रियाकारं कुर्वीरन ॥ संघभूता भिक्षवः ॥ (४२२) पलिगुद्धता पर्युषितत्वं आस्यस्य । (नाशो राधते ?), रात्रिवासादुत्थितेन दन्तकाष्ठेन अन्येन वा मुखे, निश्रयस्य अन्यस्य वा वन्दनं अभ्यवहरणं वा अकार्यम् इति अस्यैतत्प्रतिपादनम् । “न भिक्षुणा दन्तकाष्ठं अविसज्यं पिण्डपातः परिभोक्तव्यः। भुक्ते सातिसारो भवति" इति । वस्तुमनान्त"रीयके निदाने यदुक्त-'अप्रतिग्राहित-संनिहिताभ्यवहारः प्रतिक्षेपगतः एषः । अनवेत्य मुखमलं आहारपक्षतां भवद्भिः अतिक्रमः क्रियते इत्यस्य', तदेवं प्रतिपादनम् । निश्रयवृत्ती इहोक्तिकं-“सार्धविहारी अन्तेवासी वा कल्यमेव उत्थाय परिमण्डलं निवस्य आवृत्य च, दन्तकाष्ठं विसर्म्य अन्तः सीम्नि चैत्यवंदनं कृत्वा इत्यादि यत्परिशोधत्वं मुखमालस्य तदेतद्दन्तकाष्ठं विसृज्य” इत्यत्र वचनम् । अतः एतत्सूत्रम्-॥ (४२३) विसर्जयेद्दन्तकाष्ठम् ।। नैतद् प्रतिरूपम्, तस्मात् मुखमालशोधनार्थ अवलंबनीयत्वमस्य । कथं विसर्जयेदित्याह ॥ (४२४) प्रतिच्छन्नमेव ॥. (४२५) उच्चारप्रस्राविक्रिया च ॥ प्रतिच्छन्नमेव ॥ (४२६) नोपभोग्यस्य अन्ते वृक्षस्थ कुड्यस्य वा ॥ अन्ते इति समीपे, यत्र महाजनः सदा आस्ते तदत्र उपभोग्यः, न" तत्र दन्तकाष्ठविसर्जनादि कर्तव्यमित्यर्थः ।। (४२७) प्रमाणमस्य द्वादशकाङ्गलीनां प्रभृत्याऽष्टकात् ॥ अस्येति दन्तकाष्ठस्य । आ-अषटकादिपाठेऽत्र संधिः द्वादशाङ्गुलमारभ्य यावत् अष्टांगुलत्वं प्रमाणमस्य इत्यर्थः । (४२८) प्राचतुष्कोत्तरात प्रभावे बहुश्लेष्मणः ॥ अंगुलिचतुष्कस्य यदुत्तरं अनन्तरं प्रमाणं तद् यावद्भावे