Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 88
________________ १ प्रव्रज्यावस्तु ज्ञात्वा निश्रयस्य ग्रहणमित्यर्थः । [कतमेन विधिना" इति चेत् ॥ (३९२) संवरवत् ॥ इति उपासक-संवरादिवत् मन्त्रादिना विधिना इत्यर्थः। प्रगृहीताञ्जलिना संवरस्य ग्रहणम् । अस्य तु-॥ (३९३)-(३९४) प्रपीड्य उमाभ्यां पाणिभ्यां उभौ पादतलौ ॥ परीक्ष्य दानमिति ॥ निश्रयस्य किमस्य संवरो रूढः शैक्षश्च । शासने स्थापयितुं इत्येषा परीक्षा ॥ (३९५) पुत्र-पितृ-संज्ञयोः निवेशनम् ।। यथासंख्यं निश्रयनिश्रिताभ्यां परस्परम् ॥ (३९६) तत्त्वे एव उपाध्याये निधितत्वम् । तद्भावः तत्ता, तच्छब्देन उपाध्यायस्य परामर्शः। उपाध्याये स्थिते उपाध्ययता एव निश्रित्वम्-[अत्रापि]" कर्मणि क्तः । निश्रीयत इति निश्रितः, निश्रय इत्यर्थः। तद्भावे निश्रितत्त्वम् ॥ (३९७) तस्मात् अग्रहणमस्य तत्र ॥ अस्येति निश्रयस्य । तत्रेति उपाध्याये । एतदुक्तं भवति-यस्मादुपाध्यायत्वे एव निश्रयत्वं, तस्मात् 'न यस्य तस्यान्तिकात्' निश्रयो ग्राह्यः इति ॥ (३९८) निरपेक्षतासंपत्तिः उभयोः प्रात्तनिश्रयध्वंसे कारणम् ॥ उभयोरिति निश्रितनिश्रितवतोः साक्षेण : क्रमेण वा निरपेक्षतायाः संपत्ति। संपन्नता। आत्तस्य गृहीतस्य निश्रयस्य ध्वंसे कारणम् । एकत्र निरपेक्षता-भूते]* तावत् निश्रयस्यानुवृत्तिः यावत् अपरो निरपेक्षाभूतः इति । पर्षत्संबंध एष यानिश्रित-"]निश्रितत्व-उपगतिः, न चैकस्य सापेक्षतायां पर्षत्संबंधस्य अपेतत्वम्, इत्येषा अत्र व्यवस्था ॥ [सहदर्शनात् उपाध्यायस्य उद्घाटो निश्रयो वक्तव्यः]-(३९९) सन्निपत्तौ अनौपाध्यायेन अभिमतेन प्रवृत्तिः ॥ यदुक्ते उपाध्याये संनिहिते नान्यः आप्राप्तव्यः इत्यस्य तत्प्रतिपादनम् । [सापे] 'क्षत्वे पर्षत्संबंधापगमस्य । उपाध्यायगतात् निश्रयादन्यो निश्रयः अनौपाध्यायः। सन्निपतनं सन्निपत्तिः, तेन सन्निपत्ती सत्यां अभिमतेन निश्रयेण निश्रितस्य प्रवृत्तिः। योऽस्य रोचते तस्य निश्रयेण वस्तव्यम् इत्यर्थः । (४००) तेनेव तेन ॥ तेन उपाध्यायगतेन निश्रयेण सन्निपाते, तेनैव उपाध्यायेन प्रवृत्तिः। [नास्त्यत्र कादाचित्कं अकादाचित्कं च '] ॥ (४०१) निरन्तरं दृष्ट्वा उपाध्यायं आसनं मुञ्चेत ॥ निदर्शनं उपाध्यायः, अन्यत्राऽपि निश्रये विधेः व्यवस्थानात् ।। (४०२-४०३) त्रिदिवसेन निश्रित उपसंक्रामेत् तद्विहारस्थः ॥ अरण्यवासी क्रोशे चेत् प्रत्यहम् ॥ यदि क्रोशे तदरण्यं भवति, यत्र निश्रयो भवति प्रत्यहमागत्य उपसंक्रामेत् इत्यर्थः ।। (४०४-४०५) पञ्चषैः अहोभिः कोशपञ्चके ॥ पोषधे च 'अर्धन्ततीयेष योजनेषु ।। अतः परं एक [सीमा त्व]-[Plate III. 5b]' स्याभावात् निश्रयत्वस्याभावो वेदितव्यः ।। (४०६-४०९) न निश्रितं अवसादनाहं नावसादयेत् ॥ पञ्चावसादना-॥ अनासायो, अनववादः, उपस्थानधर्माभिषेः


Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134