Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 87
________________ विमयसूत्रवृत्त्यभिधानव्याख्यानम् पश्चादपि द्विमासतोधिकम् ॥ पश्चादिति ग्रहणम् । द्विमासतोऽधिकं निश्रयाऽभावे न रक्षितव्यम् इत्यस्य अनुप्रतिषेधार्थ 'अपि'-शब्दः। द्विमासं नाश्रित्यापि निश्रितं कर्तव्यं इत्यत्र ज्ञातव्यम् ॥ (३७९) वस्तु-कर्म-उपस्थापकपरिहारेण एनं परीच्छेयुः ।। एनं इति वस्तु, वस्त्वादिपरिहारैः एनं वस्तु परीच्छेयुः। वस्तु-परिहारः इति निश्रय-गृहे परिहारः । निश्रयाहसंघे पुद्गलबहुलत्वात् परीच्छेयुः, इत्यलम् विस्तरेण ॥ (३८०) दहरमध्येषु प्रभावे वृद्धतरमापृच्छेत् ॥ अभावे इति निश्रयस्य । 'वर्षावासे अनिश्रितः' इत्युक्ते वचने निश्रितानां मध्ये एकवर्षीयं आचार्यकालमतीत्य वर्षा-विच्छेदात् विहारे अनिश्रित्य गतानां विहारे अनाश्रयः अपि न कर्तव्यः, कृत्वा तु सातिसारो भवति । अथ च यस्तेषु अतिवृद्धः स प्रष्टव्यः । तदनन्तरं प्रवारितेन आचार्यपरिहारः कर्तव्यः । उक्तग्रन्थे एतद् संगृहीतं भवति । अर्थतः (?) तेषां वृद्धतरो दहरः स निश्रितः । वृद्धतरस्तत्र दहरेण प्रार्थितो भवति, 'निश्चये अनिश्रित' इति वेदितव्यम् ॥ (३८१) भावेऽपि उपनिश्रयत्वेन ।। इति निश्रये। भावेऽपि आश्रय °स्य आश्रये। दहरेषु वृद्धतरः प्रष्टव्यः । अत्रायं ग्रन्थः- "उपनिश्रयत्वेन अयमेव उपाध्यायसमः भवति । अयमेव तेन प्रष्टव्यः । अयमेव तस्य शिक्षितो भवति, पठितोऽपि पाठितो भवति" इति प्रव्रज्यावस्तुनि निर्माणे (?) उक्तम् ॥ (३८२) न अनवलोक्य तज्जातीयं परिकर्मयेत् तेन वा प्रात्मानम् ॥ अत्र तज्जातीयं निकायान्तर-प्रवजितं ज्ञातं आशंकितं वा ॥ (३८३) निर्दोष अभावे [निश्रयाहस्य] प्रवृत्तपर्येषणस्य अनिश्रितस्य वाऽपि ॥ निर्दोषमिति निरपवादम् । अभावे इति आश्रयस्य । निरपवादः कस्मिन्निति चेत्-तदर्थ प्रवृत्तपर्येषण इत्याद्युक्तम् ॥ कियत्कालमिति चेत्-(३८४) प्रापञ्चरात्रनिष्ठानात ॥ इत्युक्तम् । यावत्पञ्चरात्रपर्यन्तमित्यर्थः। यावत्पश्चरात्रत्वं हि 'लामे अर्हत्वम' । अत्र ग्रन्थः निदानात्-'अनिश्रितं देशं, उपालि', यावत् गत्वा परीक्ष्य पञ्चरात्रमुपादाय'। (३८५) अर्हत्वं च लाभे ॥ इत्युक्तं भवति ॥ तदपि अप्रतिहतसंबंधे निश्रयपर्येषणे चेति ॥ (३८६-३८७) विश्रम्य प्रागुन्तको द्वितीये तृतीये वा अह्नि निश्रयं गृह्णीत ॥ न एकाहस्य अर्थे ॥ इति निश्रयं गृह्णीत इत्येतेन अनुबन्धः॥ (३८८) अन्यं असांनिध्ये निश्रितक्ष्य प्रापृच्छेत् ॥ निश्रयकृतेन 'निश्रितः'। एष कर्मणि°०० क-( = क्तः) (प्रत्ययः) निश्रयत्वेन ग्रहणे इत्यर्थः ॥ (३८९) निर्दोषम-[Plate II. 4a] 'नापृष्टौ गतस्य कर्मादाने अपर-तद्-अागतौ ॥ कर्मादाननिमित्तं गतस्य अपरस्य कर्मादानस्य आगमने दोषाभावोऽनापृष्टौ इत्यर्थः। विभङ्गादेतद्1 शयनासन-शिक्षापदात् । 'निश्रयं गृह्णीत' इति वर्तते ॥ [(३९०) न यस्य तस्यान्तिकात् ।।] (३९१) निर्जाय वृत्त-ज्ञान-परिवारानुग्राहकत्वं प्रश्नादिना प्रस्य ग्रहणम्॥वृत्तं च ज्ञानं च परिवारश्च ग्राहकत्वं च अनुवादनादौ प्रवर्तमान तां अस्य पुद्गलस्य प्रश्नेन अन्येन वा समाचारेण


Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134