________________
विमयसूत्रवृत्त्यभिधानव्याख्यानम् पश्चादपि द्विमासतोधिकम् ॥ पश्चादिति ग्रहणम् । द्विमासतोऽधिकं निश्रयाऽभावे न रक्षितव्यम् इत्यस्य अनुप्रतिषेधार्थ 'अपि'-शब्दः। द्विमासं नाश्रित्यापि निश्रितं कर्तव्यं इत्यत्र ज्ञातव्यम् ॥ (३७९) वस्तु-कर्म-उपस्थापकपरिहारेण एनं परीच्छेयुः ।। एनं इति वस्तु, वस्त्वादिपरिहारैः एनं वस्तु परीच्छेयुः। वस्तु-परिहारः इति निश्रय-गृहे परिहारः । निश्रयाहसंघे पुद्गलबहुलत्वात् परीच्छेयुः, इत्यलम् विस्तरेण ॥ (३८०) दहरमध्येषु प्रभावे वृद्धतरमापृच्छेत् ॥ अभावे इति निश्रयस्य । 'वर्षावासे अनिश्रितः' इत्युक्ते वचने निश्रितानां मध्ये एकवर्षीयं आचार्यकालमतीत्य वर्षा-विच्छेदात् विहारे अनिश्रित्य गतानां विहारे अनाश्रयः अपि न कर्तव्यः, कृत्वा तु सातिसारो भवति । अथ च यस्तेषु अतिवृद्धः स प्रष्टव्यः । तदनन्तरं प्रवारितेन आचार्यपरिहारः कर्तव्यः । उक्तग्रन्थे एतद् संगृहीतं भवति । अर्थतः (?) तेषां वृद्धतरो दहरः स निश्रितः । वृद्धतरस्तत्र दहरेण प्रार्थितो भवति, 'निश्चये अनिश्रित' इति वेदितव्यम् ॥ (३८१) भावेऽपि उपनिश्रयत्वेन ।। इति निश्रये। भावेऽपि आश्रय °स्य आश्रये। दहरेषु वृद्धतरः प्रष्टव्यः । अत्रायं ग्रन्थः- "उपनिश्रयत्वेन अयमेव उपाध्यायसमः भवति । अयमेव तेन प्रष्टव्यः । अयमेव तस्य शिक्षितो भवति, पठितोऽपि पाठितो भवति" इति प्रव्रज्यावस्तुनि निर्माणे (?) उक्तम् ॥ (३८२) न अनवलोक्य तज्जातीयं परिकर्मयेत् तेन वा प्रात्मानम् ॥ अत्र तज्जातीयं निकायान्तर-प्रवजितं ज्ञातं आशंकितं वा ॥ (३८३) निर्दोष अभावे [निश्रयाहस्य] प्रवृत्तपर्येषणस्य अनिश्रितस्य वाऽपि ॥ निर्दोषमिति निरपवादम् । अभावे इति आश्रयस्य । निरपवादः कस्मिन्निति चेत्-तदर्थ प्रवृत्तपर्येषण इत्याद्युक्तम् ॥ कियत्कालमिति चेत्-(३८४) प्रापञ्चरात्रनिष्ठानात ॥ इत्युक्तम् । यावत्पञ्चरात्रपर्यन्तमित्यर्थः। यावत्पश्चरात्रत्वं हि 'लामे अर्हत्वम' । अत्र ग्रन्थः निदानात्-'अनिश्रितं देशं, उपालि', यावत् गत्वा परीक्ष्य पञ्चरात्रमुपादाय'। (३८५) अर्हत्वं च लाभे ॥ इत्युक्तं भवति ॥ तदपि अप्रतिहतसंबंधे निश्रयपर्येषणे चेति ॥ (३८६-३८७) विश्रम्य प्रागुन्तको द्वितीये तृतीये वा अह्नि निश्रयं गृह्णीत ॥ न एकाहस्य अर्थे ॥ इति निश्रयं गृह्णीत इत्येतेन अनुबन्धः॥ (३८८) अन्यं असांनिध्ये निश्रितक्ष्य प्रापृच्छेत् ॥ निश्रयकृतेन 'निश्रितः'। एष कर्मणि°०० क-( = क्तः) (प्रत्ययः) निश्रयत्वेन ग्रहणे इत्यर्थः ॥ (३८९) निर्दोषम-[Plate II. 4a] 'नापृष्टौ गतस्य कर्मादाने अपर-तद्-अागतौ ॥ कर्मादाननिमित्तं गतस्य अपरस्य कर्मादानस्य आगमने दोषाभावोऽनापृष्टौ इत्यर्थः। विभङ्गादेतद्1 शयनासन-शिक्षापदात् । 'निश्रयं गृह्णीत' इति वर्तते ॥ [(३९०) न यस्य तस्यान्तिकात् ।।] (३९१) निर्जाय वृत्त-ज्ञान-परिवारानुग्राहकत्वं प्रश्नादिना प्रस्य ग्रहणम्॥वृत्तं च ज्ञानं च परिवारश्च ग्राहकत्वं च अनुवादनादौ प्रवर्तमान तां अस्य पुद्गलस्य प्रश्नेन अन्येन वा समाचारेण