________________
१ प्रव्रज्यावस्तु सुशीतलस्य अपनयनमिति । पात्रस्य ॥ (३६५) प्रानिष्पन्न-रंग संपत्तेः प्रावृत्तिः ॥ तावत्पाको देयो यावत् रंगसंपन्नम् ॥ (३६६) निर्माद्य निर्माद्य प्रारोपणम् ॥ प्रतिपार्क निर्मादयितव्यमित्यर्थः॥ (३६७) सामन्तकस्य प्राणकानां अनुकम्पया संमार्जनं सेकश्च ॥ अम्भसा सामन्तकस्यैव। उक्त-'न अपात्रकं प्रव्राजयेयुः' इत्येतत्प्रसंगागतं सपरिकरं पात्रविधानम् ॥ अपरं प्रव्रज्यावस्तुसंबंधा दुच्यते--॥ (३६८) प्ररोहस्य परिव्यंजनं अज्ञातौ वर्षाग्रस्य उपसंपाद्यांगीकरणम् ॥ प्ररोहस्येति बालप्ररोहस्य । कस्मिन्प्रदेशे इत्याह--। परिव्यंजनं, व्यंजनात्समन्ततः। अज्ञातौ वर्षाग्रस्य उपासंपाद्यस्य अंगीकरणम् । अप्रज्ञायमाने विंशतिवर्षत्वे उपसंपन्निभित्तं व्यंजनसामन्तकेन रोमजन्मनो अंगीकरणमित्यर्थः । व्यज्यते अनेन पुरुषभावः इति व्यंजनम् । पुरुषेन्द्रियम् ॥ (३६९) व्याजेन अस्य प्रत्यवेक्षणम् ॥ अस्येति परिव्यंजनं रोमप्ररोहस्य । कीदृशेन व्याजेनेत्याह--॥ (३७०) ऊर्ध्वनागदन्तक-चीवरवंशस्थ भावावतारणादिना ॥ उच्चे नागदन्तके चीवरवंशेऽवतिष्ठतो वस्त्रादेः भावस्य अवतारणआरोपणादिना ॥ (३७१) न उपसंपत्प्रेक्षं वृक्षमधिरोहयेत् । (३७२) न बहिः सोमां प्रेषयेत् ॥ उपसंपत्प्रेक्षमिति । अवदर्शन-उपविचारान्तः अत्र सीमा व्यवतिष्ठते । कुतो दर्शनोपविचारान्तः 8 "उपसंपादनस्थानं तत्स्थानात् । उच्चलितायां उपसंपादनस्थानम् । तदर्थं व्यापृतात् शासनाधिमुक्तात् शीलवतः च भिक्षोः सोपधिवार-विहारस्थानतो ग मने तन्मार्गप्रतिपन्नात् । अन्यदा विहार-तदितिकरणीय-चंक्रमण-अतिनामनस्थानगतात्--(३७३) दर्शनोपविचार एनं अपकासने स्थापयेयुः गणाभिमुखं प्रगृहीतांजलिम् ॥ एनमिति उपसंपत्प्रेक्षम् । अपकासन इति रहोनुशासकगतस्य कर्मणो अश्रवथं संघमध्यात् अस्य पृथक्ज्ञापनं यत्तदत्र अपकासनग्रहणेन गृहीतम् । अपकासने (Photo missing) गणाभिमुखं प्रगृहीताञ्जलिः संघमध्यात् अनपकासितो न कर्तव्यः इत्यर्थः ॥ (३७४) न गृहिणो निश्रयानारोचयेत् ॥ (३७५) न उपसंपन्नमात्राय न प्रारोचयेत् ॥ निश्रयानिति वर्तते । 'गृहनिश्रिताय निश्रयं न आरोचयेत्'--यावत् 'अप्रव्रजिताय' इति । अस्य पश्चात् अयं ग्रन्थः--अन्यतमः ब्राह्मणदारकः प्रव्रज्योपसंपदार्थ उपाध्यायेन यावत्पिण्डपातं गच्छ इति आज्ञप्तः, तेन आज्ञप्ते सति स्वभिक्षा(याचन) हेतुना उद्विग्नः, किं प्रव्रजितेनापि पिण्डपातः कर्तव्यः इति शिक्षा प्रतिषेधते, भगवता गर्हित्वा उक्तम्--"उपसंपन्नमात्राय चत्वारः निश्रया आरोचयितव्याः" इत्यत्र संग्रहोऽयम् ।। (३७६) यत्र निश्रयाऽभावः तत्र पोषधोपासना-निश्रयप्रतिज्ञा-ग्रहणं च न कर्तव्यम् ।। (३७७) निःश्रयप्रतिज्ञाग्रहणं पूर्व नानुरक्षितव्यम् ।। निश्रयाभावे 'प्रतिज्ञायाः पश्चात् अर्थसिद्धिः दृश्यते' (इति) एतद्वचनं दृष्टम्, तत्र पूर्वकस्मिन् सति पश्चात् प्रतिज्ञा कर्तव्या इति ज्ञायते, इति वेदितव्यम् ॥ (३७८)