Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute
View full book text ________________
विनयसूत्रवृत्त्यभिधानव्याख्यानम् (३४७) धृष्टिस्तैलेन ॥ तस्य बिन्धस्य तैलतेमनेन धृष्टिः।। (३४८) गुड-मृदा मृण्मयस्य इति ।। मृण्मयस्य पात्रस्य गुड-मृदा बन्धः ॥ पट्टिका इत्यादे:58b पञ्चकस्य स्थाने गुड-मृद्-ग्रहणम् । तस्मात् शेषस्य अतोऽत्र साधुत्वं न इत्यादेः पूर्वस्यानुषङ्गः यथासंभवं वेदितव्यः । भुज्यमानत्वे संस्कारस्य प्रत्युपयोगं उपायः । तत्र कियता कालेन पात्रस्य तदसंस्कृ]"तत्वं, येन 'तपनार्हता, इत्यत्र उच्यते- ॥ (३४९) भुज्यमानत्वे पाक्यत्वं मासषट्कान्ते । तदेतद् विशेषोक्तं-मार्ते योत्यते-॥ (३५०) मातं चेत् पक्षस्य ॥–अन्ते पाक्यत्वं इत्यनुषङ्गः । अभुज्यमानत्वेऽपि यथायोगं पात्रस्य प्रतिसंस्करणं अनुष्ठेयम् ॥ (३५१) वर्षाश्चेत्, विरुक्षण-म्रक्षितत्वेन कार्यान्तराले संयोज्यत्वम् ।। प्राण्युपधानमन्तरेण [अशक्यतायां] अदेयत्वे वर्षासु पाकस्य अदेयत्वे अवस्थिते, यापनस्य एतदाख्यानम् । द्वयोः उपयोगकालयोः मध्यं कार्यान्तरालम् । तत्र अस्य पात्रस्य विरूक्षणेन म्रक्षितत्त्वेन च संयोज्यत्वम् । कार्यं कृत्वा म्रक्षयित्वा स्थापयितव्यम् । अपरत्र कार्यकाले विरूक्षयितव्यं इत्येवमेतत्संयोजनं इत्यर्थत्वात् गन्तव्यम्।। (३५२)पचनमस्य॥पात्रस्य। (३५३) नेतदात्मना कतुं प्रयुक्तम् ॥ प्रवजितस्य [आत्मना कर्तुं अयुक्तम्] इत्यर्थः ॥ (३५४) कटाहकस्य तदर्थ उपस्थापनम् । तदर्थमिति पाकार्थम् । कीदृशस्येत्याह-॥ तत्त्वोत्पत्तेः । तद्भावतत्त्वे कटाहकत्वेन एव यस्योत्पत्तिः, तद्भूततया एव यस्य करणं, न घटाद्यवयवद्वयेन' इत्यर्थः । किमस्यैव एकस्य, न इत्याह-॥ (३५५) तत्त्वोत्पत्तः कर्परकस्य वा ॥ उपस्थापनमित्यनुबन्धः। यथास्य कर्परकामेन कटाहकस्य संपादनाथं साधु घटादेः भेदनकेन [देशित 'त्वात्]-|(३५६) भस्मना पूरयित्वा साधु भेदनं घटभेवनकेन ॥ [कथमिति चेत् घटभेदकेन इत्युक्तम्] । लोहमयस्य एतद् कीलकस्य नाम-- ॥ (३५७) धारणमस्येति ॥ घटभेदनकस्य ॥ (३५८) तेन अवच्छादनं अपलायिधूमम् ॥ तेन कटाहकेन पात्रस्याऽवच्छादनं कीदृशमित्याह-अपलायिधूमम् । तद्विधं एतत्कर्तव्यं यद्विधेः धूमो न पलायते इत्यर्थः । किं आलिप्तेनैव बहिः कटाहकेन इत्याह-॥ (३५९) दत्ततुषमृत्तिकाबहिल[Plate III. 3a]'पेन ॥ दत्तः तुषमृत्तिकया बहिर्लेपो यस्मिन् तेनेत्यर्थः । अभ्यन्तरे किमदत्तेन अस्य कस्यचित् द्रव्यस्य लेपेन इत्याह-॥ (३६०) पिण्याकेन गोमयेन वा लिप्ताभ्यन्तरेण ॥ किं अशुष्केन दत्तालेपेन इत्याह--॥ (३६१) उपगतशोषेण ॥ कीदृश्यां किमास्तरायां वा भूमौ निहितस्य पात्रस्य अनेन अवच्छादनं इत्याह--॥ (३६२) कृतपरिकर्मायां भूमौ वा स्तृततुषायां अवकोणं रुचिरधूमकरकपिण्याकादिद्रव्यायां निहितस्य अधोबिलम् ।। तुषाणामुपरि रोचनशील-धूमकरकाणां पिण्याकादीनां द्रव्याणां अवकीर्णमित्यर्थः। कथं निहितस्य इत्याह--अधो बिलम् । किमतः परं कर्तव्यमित्याह--॥ (३६३) गोमयः पलालेन वा अवगुण्ठच प्रादीपनम् ।। (३६४)
Loading... Page Navigation 1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134