Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute
View full book text ________________
३६
विमयसूत्रवृत्त्यभिधानव्याख्यानम् सुवर्णमित्याहुः। पलं त्वष्टसुवर्णकम्" ॥ (२८९) न भिक्षुणी ऊवं भिक्षुकनीयसः। धारयेत् ॥ यद् भिक्षणां कनीयः तदस्याः ज्येष्ठम् । कनीयोऽस्याः यावत्पात्र मात्रकपिण्डपातसंपादनं इत्यर्थात् प्रतिपत्तिः ॥ (२९०) पुमण्डलकस्य अनयाऽत्र निषादे दानम् ॥ अनया इति भिक्षुण्या। अत्र इति पात्रे । येन प्रदेशेन अस्य निषादो भूमौ" तिष्ठापनं सस्तु निषादः, तत्र इत्यर्थः । किमाकारस्य इत्याह-॥ (२९१) बोधिवटपत्रकस्य पाणितलकस्य वा (२९२) परिमाणश्च ॥ न केवलं आकारतः परिमाणतोऽपि एतावदेव एतद्देयम् । न अधिकम् अतिक्रमादर्थस्य । मोनसंपत्तेः इत्यर्थः । भूस्पर्श कोटक-अलगनं अत्र एतद् दानेऽर्थः । (२९३) भवति सतत्त्वं याचितेन ॥ स-तत्वं याचितसपात्रत्वम् । न याचितेनानेन नापात्रकं प्रव्राजयेयुः उपसंपादयेयुर्वा ॥ "न वर्षासु अपात्रकः स्यात्" इत्येवमादिकं अतिक्रान्तं भवति इत्यस्यैतत्करणम् ।। (२९४) तद्वत्पञ्चकम् ।। त्रिचीवरं, निषदनं, परिश्रावणं च यथापात्रेण भवति स-तत्त्वं एवमनेनापि इत्यर्थः ॥ "तस्मात् अनुजानामि याचितकैरपि षड्भिः परिष्कारैः प्रव्राजयितव्यम्" इत्यत्र ग्रन्थः । परिस्रावण-निषदनाभ्यां अपि विना न प्रव्रजयितव्यं इति [त्रितयम् ]२७ । अतः आपन्नं वेदितव्यम् ॥ (२९५-२९६-२९७) न वर्षासु अपात्रका स्यात् ॥ न जनपदचारिका चरेत् ॥ चरेत सभयतायां कुपात्रकेण ॥ "उपनन्देन अपात्रकः प्रवाजितः, स भिक्षुभिः साधं जनपदचारिकां चरन् कर्वटकं अनुप्राप्तः । तत्र गृहपतिना भिक्षवो भक्तेन उपनिमन्त्रिताः । यावत् तस्य नवप्रव्राज्यस्य पात्रं नास्ति, स गृहपतिः अवध्यायति [Plate III. 2a] । 'भगवानाह–'न भिक्षुणा पात्रेण विना जनपदचारिका चरितव्या। अदत्त-आदायिकैः मुष्यन्ते, भगवानाह–'कुपात्रं नेतव्यं, पात्रं स्थापयितव्यम्, वर्षासु पात्रं उपस्थापयितव्यम्' इत्यत्र ग्रन्थः ॥ (२९८-२९९३००)२७ न प्रवाजयेत् अभावे ॥ न उत्थितः पात्रं कर्षयेत्, प्रक्षिपेत्, शोषयेद्वा॥ मात्रया परिभुंजीत ॥ तद्-भोगप्रदर्शनार्थमाह-॥ (३०.) न अन्येनात्र निःसर्ग प्रक्षिपेत् । अन्येन इति भाजनान्तरेण । निःसर्गमिति छोरणधर्मकम् ॥ (३०२) न अनेन संकारं छोरयेत् ॥ नावचं छोरयेत् इति वर्तते ॥ (३०३-३०८) न हस्तमुखोवकं दद्यात् । न प्रमदनधर्मणा श्रामणेरेण निर्मादयेत ॥ न सवालुकेन गो-शकृता ।। न अत्या प्रतिशामयेत ॥ नातिशुष्क अध्युपेक्षेत ॥ न शिलायां स्थापयेत् ।। तावत्कालिकमेतद् स्थापनम् ॥ (३०९) न अशुचौ प्रदेशे ॥(३१०) न यत्र क्व चन ।। प्रदेश इति वर्तते स्थापनं च ॥ (३११) नास्मिन् निक्षिपेत् ॥ यत्र क्व चन अतिनामनाथं एष निषेधः, न तत्कालार्थम् ।। (३१२) मालकस्य एतदर्थ करणम् ॥ पात्रस्थापनार्थम् ॥ मालकमिति गवाक्षकस्य नाम । कथं करणमित्याह-॥ (३१३) उत्तिष्ठतोविहारपरिगणयोः न खननेन भितः॥ (३१४) चकोरकस्य आरण्यकः ॥ पात्रस्थापनार्थकर
Loading... Page Navigation 1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134