Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute
View full book text ________________
१ प्रज्यावस्तु
३७ णम् । आकाश-मालकमित्यस्य पाठान्तरेण व्यवहारः । किम्मयस्य इत्याह-॥ (३१५) लतामयस्य रज्ज्वा वा ॥ विकारस्य रज्जुमयस्येत्यर्थः ॥ (३१६) लिप्तस्य गोमयमृदा ॥ (३१७) स-तद्विधपिधानस्य ॥ पिधानकमपि अस्य लतामयं रज्जुमयं च आलिप्तं गोमयमृदा कर्तव्यमित्यर्थः ॥ (३१८-३१९-३२०) लम्बनमस्य कान्तारिकया वृक्षे साधु ॥ न भूमौ स्थापनम् ॥ न एनं अन्यत्र नयेत् ।। (इति) चकोरकम् ॥ (३२१) प्रक्षिप्तं स्थविकायां नयेत् ॥ पात्रम् ॥ (३२२) न हस्तेन' इति नयेत् ॥ (३२३) कक्षया अस्य ॥ इति पात्रस्य (३२४) नयनं आलयनकं37 दत्त्वा ॥ (३२५) पृथकस्थवि[का]सु पात्रभैषज्यकोलाहलानि स्थापयेत् ।। अन्यस्यां पात्रं, अन्यस्यां भैषज्यं, अन्यस्यां कोलाहलमित्यर्थः ॥ कोलाहलं पुनः आरा-वधिकादिद्रव्यम् ॥ (३२६) धारयेदेनाः ॥ इति पात्रादिस्थविकाः॥ (३२७) न तुल्यावलम्बनानां आसु प्रालयनकानां निवेशं उपयुञ्जीत ॥ आसु इति पात्रादिस्थविकासु न-तुल्यावलम्बनानां आलयनका दातव्या इत्यर्थः। तथा च-"आर्य, किमयं मृदङ्गः" इति निदानम् । अतः तुल्यनिवेशोपयोगप्रतिषेधपरं एतद् ॥ (३२८) अविस्तीर्णानां च दुःखाऽनिच्छः ॥ न आलयनकानां निवेशं उपयुञ्जीत । किंकार[ण]मित्याह-दुःखानिच्छुः।(३२९) संकोचासंपत्तये न मतदानम् ।। कस्मिन्प्रदेशे न मतदानमित्याह-॥ (३३०) मध्ये ॥ आलयन कमिति प्रकरणात् गन्तव्यम् । पृथक्त्वस्य अस्य मध्ये, न दीर्घस्य इति अर्थात् गन्तव्यम् ॥ (३३१) स्थानाय अस्येति५४ अन्तरान्तरे काकपदकदानम् ॥ (३३२-३३५) चक्षुरिव पात्रं पालयेत् ॥ त्वचमिवसंघाटीम् ॥ शिष्टं च चीवरं च ॥ न प्रतिसंस्करणमुपेक्षेत ॥ बन्धन-पचन-धावन-सेचन-रंजनानि-। उभयं हि पात्रं चीवरं च अपेक्ष्य एतद्वचनम् ॥ (३३६) अनुतिष्ठेत् पात्र बन्धनं प्रतिगुप्ते प्रदेशे ॥ नाप्र- [.Plate III.3b]' तिगुप्त एतद् क्रियमाणं अप्रसादवस्तु इति ख्यापनार्थ एतत्सूत्रम् ॥ ३३७-३३८) उपस्थापयेत् संघः करिभाण्डिकाम् ॥ छिद्रस्यैतदिति ॥ बन्धनम् ॥ (३३९) न तु साधु गुड-जतु-सिक्थ-त्रपु-सीसैः ॥ केन तहि साधु इत्याह-॥ (३४०) साधु पट्टिका-कोलिका-थिग्गलिका-मकरदन्तिका[भिः] ॥ (३४१) चूणिकया च । लोहस्य पाषाणस्य वा ॥ बन्धनं साधु इति अनुबन्धः ।। (३४२) तेलेन धष्टिरिति ॥ चूणिकया । कुतो यावदिति आह- (३४३) आसिक्थ -सादृश्यात् ॥ केन7 धृष्टिः इत्याह-॥ (३४४) लोहेन कुरुविन्देन वा ॥ अनेन चूर्णिकायाः तैलेन आHकृत्वा यावत् सिक्थसदृशीभावः ता-[व]त्धृष्टिरित्यर्थः ॥ (३४५) उष्णे दानमिति ॥ पात्रे इति प्रकरणात् प्रतिपत्तिः । तां च पात्रे दत्तां चूर्णिकाम् ॥ (३४६) अवगुण्ठ्य ऊर्जेन Ba (?), मृदाऽनुलिप्य, पाकस्य दानम् ॥ इत्यनुषङ्गः। कीदृशस्य पाकस्य दानमित्याह-। मध्यस्य ।
Loading... Page Navigation 1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134