Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 81
________________ ३४ विनयसूत्रवृत्त्यभिधानव्याख्यानम् न जेन्ताके एव अस्य विधेः व्यवतिष्ठमानता, इति तन्नाश्रितम् ॥ (२५६) नेतद् कायस्य प्रश्रद्धेन कारयेत् ॥ 'एतद्' इति परिकर्म, यद् [बाह्यं'] 'भारोद्वहनादिकं कर्म न प्रतिषिध्यते ॥ (२५७) अनित्वरा अत्र पूर्वत्र च श्रद्धा अभिसंहिता ॥ 'अनि. त्वरा' इति चिरकालोत्पत्त्या या अनिष्कम्पा सा अनित्वरा । 'अत्र' इति अनन्तरोके परिकर्मविधी । 'पूर्वत्र च' इति 'नाश्रद्धस्य अत्र प्रवेशं दद्यात्' इत्यत्र । 'अभिसंहिता' इति अभिप्रेता ॥ (२५८) न सिंहसमः शृगालसममु(प)तिष्ठेत् ॥ शीलवता दुःशीलस्य उपस्थापनं न कार्यमित्यर्थः । अपवादोऽस्य क्रियते॥ (२५९-२६०) परमदुःशीलौ प्राचार्योपाध्यायो उपतिष्ठेत ॥ मातापितालानांश्च अगारिकानपि ॥ परमोपकारित्वादेषां इत्येतद् अभ्यनुज्ञानम् ॥ (२६१) स्नानं संभारकस्नात्रेण ॥ B°[ग्लानः । अत्र निदानं पठ्यते । ग्लान-ग्रहणं प्रज्ञप्तौ न कृतम्, [न चान्यस्य ] अन्यत्र अप्रतिरूपत्वम् । विशेषापरिग्रहात् सर्वाधिकारिकं उपनिबद्धम् । तत्स्वरूपोपप्रदर्शनार्थ आह-॥(२६२) वातहरमूल-गण्ड-पत्र-पुष्प-फलक्वाथस्नानं तदाख्यम् ॥ संभारकस्नात्राख्यं इत्यर्थः। बृंहणं स्नानेऽर्थः । इत्येषां अत्र अङ्गत्वम् । कथं स्नानमित्याह-॥ (२६३-२६४) अभ्यक्षाऽरूक्षतार्थम् ॥ उपस्नानकेन अपगत्यै तस्य ॥ तस्य अरूक्षतार्थस्य [तैलादि-1] अभ्यंगस्य अपगत्यर्थं उपस्नानकेन, अभ्यक्षा इत्यर्थः । (२६५) [" पूर्वार्थ] उदकुम्भे पश्चिमे द्वित्रस्नेहबिन्दु [Plate III.la]'. दानम ॥ पूर्वार्थमिति अरूक्षतार्थम् । द्वौ त्रयो वा स्नेहबिन्दवः पश्चिमे उदकुम्भे देयाः इत्यर्थः ॥(२६६) स्नायात् अयोद्रोणिकायाम्। धारयेदेनां ग्लानः इति । "एनामिति अयोद्रोणिकाम् । धारणं अग्लानेन अस्याः न युज्यते, न उपयोजनं अयस्पिण्डवत्, इत्यस्य प्रतिपत्तव्यम् । [औद्धत्यं एवं-जातीयकस्य विनार्थेन करणम्, तच्च सर्व दुष्कृतमिति गम्यमानत्वात् न सूत्रितम् ॥ (२६७) दद्यात् उपरि अस्याः पिधानकम् ॥ उष्ण स्योदकस्य शीतभावपरिहारार्थम् ॥ (२६८) ग्रीवायां चात्र गण्डोपधानिकाम् ॥ दद्यात् इति वर्तते । अविलंबितमत्र स्नानम्, अदुःखनार्थम् । अतो अस्याः दानम् ॥ (२६९) न यत्र क्व चन पादौ प्रक्षालयेत् ॥ विहाराधिकृतमेतद् ॥ (२७०) स्थानमस्य प्रनाडिमुखम् ॥ 'अस्य' इति पादप्रक्षालनस्य। भगवानाह'प्रनाडीमुखे प्रक्षालयितव्यम्' इत्यत्र ग्रन्थः ॥ (२७१) कारयेरन् पादधावनिकाम् ।। अनया विना प्रनाडीमुखादौ अर्थसिद्धेर्विधातः। इति कामकारोऽत्र, न नियमः इति संदर्शनार्थम् आदौ क्रियापदस्य प्रयोगः । सांघिकं वस्तु अस्याः स्थानम् । न च सांघिके वस्तुनि एकस्य प्रसंगः इति बहुवचनम् । कस्मिन्प्रदेशे इत्याह-॥ (२७२) उपरिविहारस्य पूर्वदक्षिणकोणे ॥ किमाकारमिति-(२७३) कर्माकृति खराम् ॥ मलापहरणमत्र अर्थः ॥ (२७४) उपस्थापयेत् कठिल्लम् ॥ प्रतिग्रहस्यैतन्नाम। किम्मयं

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134