________________
३४
विनयसूत्रवृत्त्यभिधानव्याख्यानम् न जेन्ताके एव अस्य विधेः व्यवतिष्ठमानता, इति तन्नाश्रितम् ॥ (२५६) नेतद् कायस्य प्रश्रद्धेन कारयेत् ॥ 'एतद्' इति परिकर्म, यद् [बाह्यं'] 'भारोद्वहनादिकं कर्म न प्रतिषिध्यते ॥ (२५७) अनित्वरा अत्र पूर्वत्र च श्रद्धा अभिसंहिता ॥ 'अनि. त्वरा' इति चिरकालोत्पत्त्या या अनिष्कम्पा सा अनित्वरा । 'अत्र' इति अनन्तरोके परिकर्मविधी । 'पूर्वत्र च' इति 'नाश्रद्धस्य अत्र प्रवेशं दद्यात्' इत्यत्र । 'अभिसंहिता' इति अभिप्रेता ॥ (२५८) न सिंहसमः शृगालसममु(प)तिष्ठेत् ॥ शीलवता दुःशीलस्य उपस्थापनं न कार्यमित्यर्थः । अपवादोऽस्य क्रियते॥ (२५९-२६०) परमदुःशीलौ प्राचार्योपाध्यायो उपतिष्ठेत ॥ मातापितालानांश्च अगारिकानपि ॥ परमोपकारित्वादेषां इत्येतद् अभ्यनुज्ञानम् ॥ (२६१) स्नानं संभारकस्नात्रेण ॥ B°[ग्लानः । अत्र निदानं पठ्यते । ग्लान-ग्रहणं प्रज्ञप्तौ न कृतम्, [न चान्यस्य ] अन्यत्र अप्रतिरूपत्वम् । विशेषापरिग्रहात् सर्वाधिकारिकं उपनिबद्धम् । तत्स्वरूपोपप्रदर्शनार्थ आह-॥(२६२) वातहरमूल-गण्ड-पत्र-पुष्प-फलक्वाथस्नानं तदाख्यम् ॥ संभारकस्नात्राख्यं इत्यर्थः। बृंहणं स्नानेऽर्थः । इत्येषां अत्र अङ्गत्वम् । कथं स्नानमित्याह-॥ (२६३-२६४) अभ्यक्षाऽरूक्षतार्थम् ॥ उपस्नानकेन अपगत्यै तस्य ॥ तस्य अरूक्षतार्थस्य [तैलादि-1] अभ्यंगस्य अपगत्यर्थं उपस्नानकेन, अभ्यक्षा इत्यर्थः । (२६५) [" पूर्वार्थ] उदकुम्भे पश्चिमे द्वित्रस्नेहबिन्दु [Plate III.la]'. दानम ॥ पूर्वार्थमिति अरूक्षतार्थम् । द्वौ त्रयो वा स्नेहबिन्दवः पश्चिमे उदकुम्भे देयाः इत्यर्थः ॥(२६६) स्नायात् अयोद्रोणिकायाम्। धारयेदेनां ग्लानः इति ।
"एनामिति अयोद्रोणिकाम् । धारणं अग्लानेन अस्याः न युज्यते, न उपयोजनं अयस्पिण्डवत्, इत्यस्य प्रतिपत्तव्यम् । [औद्धत्यं एवं-जातीयकस्य विनार्थेन करणम्, तच्च सर्व दुष्कृतमिति गम्यमानत्वात् न सूत्रितम् ॥ (२६७) दद्यात् उपरि अस्याः पिधानकम् ॥ उष्ण स्योदकस्य शीतभावपरिहारार्थम् ॥ (२६८) ग्रीवायां चात्र गण्डोपधानिकाम् ॥ दद्यात् इति वर्तते । अविलंबितमत्र स्नानम्, अदुःखनार्थम् । अतो अस्याः दानम् ॥ (२६९) न यत्र क्व चन पादौ प्रक्षालयेत् ॥ विहाराधिकृतमेतद् ॥ (२७०) स्थानमस्य प्रनाडिमुखम् ॥ 'अस्य' इति पादप्रक्षालनस्य। भगवानाह'प्रनाडीमुखे प्रक्षालयितव्यम्' इत्यत्र ग्रन्थः ॥ (२७१) कारयेरन् पादधावनिकाम् ।। अनया विना प्रनाडीमुखादौ अर्थसिद्धेर्विधातः। इति कामकारोऽत्र, न नियमः इति संदर्शनार्थम् आदौ क्रियापदस्य प्रयोगः । सांघिकं वस्तु अस्याः स्थानम् । न च सांघिके वस्तुनि एकस्य प्रसंगः इति बहुवचनम् । कस्मिन्प्रदेशे इत्याह-॥ (२७२) उपरिविहारस्य पूर्वदक्षिणकोणे ॥ किमाकारमिति-(२७३) कर्माकृति खराम् ॥ मलापहरणमत्र अर्थः ॥ (२७४) उपस्थापयेत् कठिल्लम् ॥ प्रतिग्रहस्यैतन्नाम। किम्मयं