________________
१ प्रव्रज्यावस्तु
३३
अज्ञातं अत्रैतद्गतो निर्ज्ञानार्थं पृच्छेत् ॥ [ द्वारपालस्य " एतदर्थं स्थापनं ॥ अप्रवेशार्थं च भिक्षो: ] इति ॥ मध्यपातेन इति युष्मदन्यतमोऽहं इत्यन्तर्भावेन । एतद्गत इति जेन्ताकगतः । किमयं भिक्षुः उत आजीविकादिः इति [ निर्ज्ञानार्थं " ] पृच्छेत् ॥ द्वारपालस्य एतदर्थं स्थापनम् इति अज्ञातस्य मध्यपातेन प्रत्युपतिष्ठमानस्य निर्ज्ञानाय प्रश्नार्थं अप्रवेशार्थं च इति । नायमस्मदन्यतम इति प्रश्नेन अस्य ज्ञातस्य । कीदृशस्य द्वारपालस्य इत्याह भिक्षोः । निदर्शनमेतद् अनुपसंपन्नस्यापि प्रव्रजितस्य; भिक्षुणीषु वा तत्पक्षस्यैव पुद्गलस्य ॥ ( २४० ) ६ नाश्रद्धस्य अत्र प्रवेशं दद्यात् ॥ अत्र इति जेता । प्रत्युपतिष्ठमानस्यापि मध्यपातेन, एषोऽत्र अपरो द्वारपालस्यार्थः ॥ (२४१) सार्धं विहारी - अन्तेवासिकः अत्र परिकर्मकरणम् ॥ अत्र इति जेन्ताके ॥ (२४२) नवकेरिति परमिति ॥ मतान्तरस्यैतत्प्रदर्शनम् । केषांचित् पाठान्तरम् । नवकैः परिकर्म जन्ताके कर्तव्यमिति । रूपदर्शनार्थं परिकर्मणः आह – ॥ (२४३-२४४) दीपनकटाहक तेल - दन्तकाष्ठ- गोमय- मृच्चूर्ण पानीयाद्युपस्थापन-काष्ठप्रत्यवेक्षणउद्वर्त्तन-स्नेहेन स्नपन - संमार्जन-संकारोच्छोरणादौ ॥ परिकर्मणः करणं तेषां परस्परेण ॥ इति सार्धं - विहार्यन्तेवासिनां उद्वर्त्तनादेः परिकर्मणः परस्परं करणम् ॥ (२४५) पीठशुक्तिकयोः चौक्षितां कृत्वा निक्षेपो यथास्थाने ॥ इत्यादि[Plate III. 1b]शब्देर [पेक्षितस्य ?] परिकर्मणः संग्रहमातृकायां "एतदादिना अग्रतः स्थित्वा "वितपेत्" इत्यन्तम् ।। ( २४६) सर्वत्र एष भाण्डे विधिः ॥ चौक्षतां कृत्वा यथास्थाने निक्षेप इति 'एषः ' ॥ (२४७) सर्वमुपकरणं सुगुप्तके लायितं कुर्यात् ॥ न भाण्डग्रहणेन कस्यचिदुपकरणस्य अग्रहणम्, अन्यत्र तु जेन्तकान्तात् । विधानार्थमेतत्सूत्रम् — । ( २४८) अल्पशब्दोऽत्र प्रविशेत् ॥ जेन्ताके ।। (२४९-२५०) प्रासादिकः ॥ सुसंवृत्तेयः २७ [ईर्यापथ-प्रासादिक 2 - ] संप्रजानन् ॥ सुसंवृतः स्वीर्यश्च' 4 कायवाचोः अविक्षेपं सुसंवृत्तेयत्वेन दर्शयति । संप्रजानन्नित्यनेन चेतसः । [ २७ईर्यापथ] - प्रासादिकत्वस्य एतत्प्रकारद्वयेन दर्शनम् ॥ ( २५१) नाग्रतः स्थित्वा वितपेत् ॥ न परं विततं व्यवधाय आत्मना वितपेदित्यर्थः । (२५२) संगणिकावर्जनमिति ॥ अत्रेति वर्तते, कामानुगुणं प्रतिपद्य जेन्ताकेर वृत्त', 'संदीपिका च कामानां संगणिका' इति अतोऽस्या वर्जनं अत्र विशेषतः ॥ (२५३) श्रार्यतूष्णीभावावलंबन मिति ॥ अत्रेत्येव [संबध्यते ] । असद् - विकल्प- तदनुगुणचित्तविनिवर्तनार्थं एतत्सूत्रम् । योनिसो-मनसिकार-संमुखीकरणं आर्य- तूष्णीभवो वेदितव्यः ॥ (२५४) त्रिदण्डकादानं गन्तव्ये ॥ गमनकाले ।। ( २५५) नैकर्चावरः परिक [मं कुर्यात् ] ॥ जेन्ताकग्रहणमत्र कैश्चित्क्रियते "कायगतख्यापितं परस्पर-ग्रहणम् । न भिक्षुभिः जेन्ताके एकचीवरैः परस्परं परिकर्म कर्तव्यमिति । सर्वत्र परिकर्मणि न कायगत एव सर्वत्र च स्थाने,
५