________________
१ प्रव्रज्यावस्तु इत्याह-मृण्मयम्, न सुवर्ण-रूप्य-वैडूर्य-स्फटिकमयानि कठिल्लानि उपस्थापयितव्यानि, अपि तु मृण्मय[मि]त्यत्र ग्रन्थः। किं-संस्थानम्-|| (२७५) हस्तिपदबुघ्नं कणिकावन्तम् इति ।। अलुठनमत्र अर्थः । कणिकावन्त मिति धाव्यमानपादावस्थानार्थ एतत्करणम् । क्व संनिविष्ट या कणिकया तद्वन्तमित्याह-॥ (२७६) मध्ये संनि. विष्टया ॥ किमाकारया इत्याह-॥ (२७७) कदम्बपुष्पाकारया खरया च ॥ पादाऽपिच्छलनाथ खरत्वम् ।। (२७८) प्रक्षाल्य स्थापनं अवाङ्मुखस्य ॥ प्रासादिकतार्थ एतत्प्रक्षालनम् । नैर्मल्यं प्रासादिकत्वम् । न चास्य यद् तत्र शौचोदकं अवतिष्ठते । ततः न संपत्तिः, तस्मात् अन्येनाम्भसा इति मन्तव्यम् । 'पादौ प्रक्षाल्य बहिविहारस्य प्रनाडीमुखे वा पादोदकं छोरयित्वा पुनः प्रक्षाल्य' इत्यत्र ग्रन्थः। क्व स्थापनमित्याह-॥ (२७९-२८२) तलकोपरि सांधिकस्य ॥ पौद्गलिकस्य लयने कपाटसंधौ ॥ पात्रनिर्मादनादि यत्र प्रदेशे विहारे कुर्यात्, तस्या मार्जनं उदकेन प्रलेपनं वा।। कुन्तफलाकारेण मृदङ्गस्य वा ॥ आकारेणेति वर्तते। केन प्रलेपनमित्याह-॥ (२८३) गोमयेन मृदा वा ॥ [इत्युच्यते ॥ (२८४) न विद्यते रत्नार्थतायां प्रलिप्तेः प्राकारस्य [नियमः ॥ (२८५-२८७) न अपात्रकं प्रव्राजयेयुः उपसंपादयेयुवा ॥ नोनेन अधिकेन पाण्डना वा॥ त्रीणि पात्राणि, ज्येष्ठं मध्यं कनीय इति ॥ तत्प्रमाणनिर्ज्ञानार्थ उच्यते-॥ (२८८) शेषेण ऊर्ध्वभागान्त-अनन्तरात् अंगुष्ठोदरात् पक्वतण्डुलप्रस्थस्य ऊध्वं वा, तदद्वयान्मागधकस्य उद्वाहि ससूपसव्यंजनस्य एतन्मध्यं [तदन्याय्यम् ]२७ ॥ ऊर्ध्वभागस्य [Plate III. 2b] 'नाधोभागस्य । अन्ततो नान्यस्मात् प्रदेशादनन्तरं, यद् अंगुष्ठोदरं, पर्वप्रदेशे या अंगुष्ठस्य पृथुता, तन्मात्रम् । ततः शेषेणाधरेण [अंशेन]२७ प्रस्थं वा पकानां तण्डुलानां मागधकं, तत ऊध्वं वा द्विगुणं प्रस्थं, यावत् स्वानुरूपव्यंजनसहितं यावदुद्वहति, तदेतद् अनपेतं आप्यं इत्यर्थः। तैल-घृत-मधु-उदकादीनां द्वात्रिंशत्पलानि मागधकः प्रस्थः। अन्येषां अद्रवाणां षोडशेति द्रव्यमात्रव्यंजकानाम्२७ ॥ ततः, षोडशानां अत्र पलानां मागधकेन प्रस्थेन अभिधानं इति प्रतिपत्तव्यम् ॥ “यत्र द्वी मागधको पकतण्डुलप्रस्थौ ससूपव्यंजनौ प्रक्षिप्तौ अङ्गुष्ठोदरेण तित्तिकं न स्पृशतः तद् ज्येष्ठम् । यत्रैकः तत्कनीयो, अत्रान्तरात् मध्यम् ।" इत्यत्र ग्रन्थः । व्यंजनीयार्थत्वेन अत्र सूपव्यंजनयोः ग्रहणात् भागशः सूपव्यंजनयोः अत्र तेमनत्वं इति श्रितम्, तस्मात् अनेकत्वे व्यंजन-प्रभेदानां भागशोऽत्र अभिनिश्रेयत्वम् । यावता व्यंजनेन भोजनीयं व्यंजितं भवति, तावतो व्यंजनस्य पात्रप्रमाणे संश्रेयता, न परेण इत्यर्थः । पलस्य देशभेदेन हीन-मध्य-उत्कृष्ट-सांकर्यदोषव्युदासार्थं आम्नायागतं प्रमाणमुच्यते । "माषोऽष्टरक्तिको ज्ञेयः। २७तोलो [माषाष्ट]"कः स्मृतः ॥ तोलं