Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 76
________________ १ प्रव्रज्यावस्तु २. संकक्षिकया ॥ केशप्रतिग्रहणस्य:०b चीवरस्याभावे संकक्षिकया आवृतया केशश्मश्रू अवतारयेत् ।। (१७१) न संस्तरे । इति 37 न केशश्मश्रू अवतारयेत् । निवानेष्वपि "आदावेव नखच्छेदनम् इति एतदन्ते ग्रन्थः ॥ (१७२) न यत्र सांधिक-संमार्जनीनिपातः ॥ इति विहाराधिकारिकमेतद् ॥ (१७३-१७४) अवतारयेत प्रासादादी जीर्णो ग्लानो वा वातातपवर्षेष च ॥ तं प्रदेशं परिकर्मयेत् ॥ निष्केशत्वं निरुदकत्वं च परिकर्मणः। तद्यथा संपद्यते तथा करणीयम् ॥ (१७५) संकीर्णे बालोच्छारणम् ॥ ५ससंकारे प्रदेशे इत्यर्थः ॥ (१७६) एवं नखच्छेदनम् ॥ न संस्तरे इत्यादेः एषोऽतिदेशः। ३'केशप्रतिग्रहे निपुणग्राहिणी क्रियमाणा भूमौ कृता भवति । तस्मात् नात्रच्छेदनेन यत्र सांधिक-संमार्जनी निपातः। इत्यस्य अतिक्रान्तत्वं, परिकर्मभव्यता वा भूमेः । केशश्मश्रु-अवतारणे अस्य परिहारस्य असंभवो वेदितव्यः ॥ (१७७) न अनधिष्ठिता भिक्षुणी एषा पुरूषणावीतरागा केशांश्छेदयेत् ।। एषा इति भिक्षुणी अवीतरागा इति; 'अनापत्तिर्यदि वीतरागा स्यात्' इत्यत्र ग्रन्थः । छेदयेत इति मुण्डनस्य चैतदत्रैवं वचनम् । अथ महाप्रजापती गौतमी पञ्चभिः शाक्यायनिकाशतैः सार्धं स्वयमेव केशांश्छेदयित्वा काषायाणि वस्त्राणि आच्छाद्य इति केशच्छेदनस्य उक्तस्य [एवमेव त्वं गौतमी मुण्डा शोभना]' इति मुण्डात्वेन अभिधानात्; दीर्घत्वात् केशानां अन्य-मुण्डने सनिमित्तमेतदभिधानम् । अन्यत्र अनुव्यवहारः-अवीतरागा भिक्षुणी भिक्षुण्या अनधिष्ठिता sac न [पुरुषेण] केशांश्छेदयेत् इत्यर्थः ॥ (१७८) संरज्यमानां अधिष्ठात्री समनुशिष्यात्-‘स्मृतिमुपस्थापय किमस्मिन् कलेवरे सारमस्ति' इति । [Plate II''] संरज्यमानां इति कल्पके तां भिक्षुणीम् ॥ (१७९) मातृसंज्ञा भगिन्या दुहितुश्चेति कल्पके 7 उपस्थापय इति । संरज्यमानां अधिष्ठात्री समनुशिष्यात् -मात्रादिसंज्ञामुपस्थापय इति ॥ (१८०) स्नानं कृतेऽत्र कुर्वीत इति ॥ अत्र इति केशश्मश्रु-अवतारणे ॥ (१८१) पञ्चाङ्गिक वा शौचमिति ॥ कल्पान्तर-उपादानार्थं वा शब्दः । सत्यपि पानीयस्य संभवे, कल्पत एवैतद्-'भिक्षुणा केशप्रतिग्रहणं धारयितव्यम्, स्नातव्यं वा, अन्ततो हस्तपादा प्रक्षालयतिव्याः' इत्यत्र ग्रन्थः ॥(१८२) न नग्नं स्नायात् इति । त्रिमण्डलाच्छादितत्वे परिपूर्ण अनग्नत्वम् । यावत् त्रिमण्डलाच्छादिते रोमाङ्गजातयोः छादित्वम्, तावत् छादितत्वेन सर्वस्य (अपरस्य) अपरिहर्तव्यता इति एतद् अत्र सामर्थ्यात् गन्तव्यम् ॥ (१८३) न भिक्षुणी पुरुषतीर्थे स्नायात् , न स्त्रीतीर्थे चूर्णेन इति ॥ पुरुषतीर्थे भिक्षण्याः स्नानस्य एव प्रतिषेधः । स्त्रीतीर्थे तु मुद्गचूर्णादिना, केवलस्य (प्रादेशिक स्नानस्य)7 अप्रतिवेधः । 'द्वादशवगिण्यः स्त्रीतीर्थे स्नान्ति, गृहपति-पत्नीनां स्नान्तीनां औद्धत्यं कुर्वन्ति, माषचूर्णादि क्षिपन्ति । भगवानाह-न भिक्षुण्या स्त्रीतीर्थे चूर्णेन स्नातव्यम्' इत्यत्र ग्रन्थः ॥ (१८४) कल्भ्यते

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134