Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 74
________________ १ प्रव्रज्यावस्तु २७ दुष्टं । नोपस्थापयेत्, वासस्थानेऽपि अन्तर्दाने, न अनुपरिवारित्वेन च, न केवलं निश्रयदाने । तथा च भिक्षुणा पर्षद् दूषकपर्षद्, न उपस्थापयितव्या, उपस्थापयति सातिसारो भवति । इत्युक्त्वा कियता पर्षद् दूषिका ] पर्षद् इति वक्तव्या ? | जातितो वर्णसंस्थानेन च ॥ कथं जातितः ? । रथकारचण्डालपुक्कसकुलात् ॥ कथं वर्णसंस्थानतः ? हरिद्रकेशा इत्याद्यत्रोक्तम् ॥ ( १५४) युज्यते नैकस्योपाध्यायस्य एकेन वचसा उपसंपादनं श्रात्रयात् ॥ श्रनेकस्येति द्विप्रभृते: । एक उपाध्यायः अस्येति एकोपाध्यायः, तस्य । एकेन वचसा इति एकप्रज्ञप्त्या । कि यतोऽनेकस्य इत्याह । श्रात्रयात् * [48b त्रिभ्यो यावत् युज्यते, न परेण इत्यर्थः ॥ 'न गणो गणस्य कर्माणि करोति' इत्यागमात् ॥ केचित् -- अंगीकृतोपाध्यायभेदं अत्र ग्रन्थं कुर्वते“लभ्यं भदन्त एककाले एकक्षणे एकेन कर्मकारकेण एकया ज्ञप्त्या द्वाभ्यां कर्माणि कर्तुम् ? कृतानि च वक्तव्यानि ? न च संघः तेन सातिसारो भवति' ? – 'लभ्यं उपालिन् स चेत् कर्मकारको भिक्षुः प्रतिबलो भवति । उपाध्यायानां नामपरिकीर्तनं कर्तुं उपसंपत्प्रेक्षाणां च ज्ञप्तिं च न हापयति कर्म च करोति' इत्यादि ॥ आर्यउपालिनो दासकः पालकश्च श्रामणेरकौ सप्रेमको गतौ, अन्योन्यानुरक्षयाऽयुगपत् नोपसंपाद्यौ, [तस्मात् पृथक् ] द्वौ नोपसंपद्यते । एतन्निदानं एकोपाध्यायस्य अनेकस्य उपसंपादनानुज्ञाने, अस्मान्निदानात् एकोपाध्यायस्य अनेकस्याङ्गीकरणं अत्र 27 निदानात् दृश्यते । इत्येवं अङ्गीकृतं न चैतं प्रयुज्यते । ( १५५ ) श्रभावः 'तुल्यसमयानां परस्परं सामोचीकरणस्य ॥ एककाले एककर्मवाचनोपसंपादितानां पृथग्वा उपसंपन्नानां येषां तुल्यसमयः तेषां सामीचीकरणस्य परस्परं अभावः । सामीची वन्दना ॥ ( १५६ ) संप्राप्ते प्राथम्यम् ॥ तुल्यममयानां लाभकर्मादानोद्देशादि स्थानं, यः प्रथमं संप्राप्तः 'यथागतिकया लाभो ग्रहीतव्यः' इति वचनात् तस्य लाभग्रहणे प्राथम्यम् ॥ कर्मादाने यः पश्चादागतः तेन पूर्वकर्म कर्तव्यम् पश्चादागतः कर्मादाने प्रथमं इति [ 6 ] ' वचनात् । प्रथमं कार्यतादि अयमर्थः । लाभग्रहणे प्रथमं स्थानं संप्राप्ते प्राथम्यम्, कर्मादानकरणे पञ्चात्स्थानं संप्राप्ते प्राथम्यमिति । (१५७) न द्व्यङ्गुलादूर्ध्वं श्रारण्यकः केशान् धारयेत् ।। ( १५८ ) नैतद् अर्वाक्त्वात् ग्रामान्तिकः । अर्वाग्भावः अर्वाक्त्वम् । एतस्य द्वयङ्गुलस्य अर्वाग्भावात् ऊर्ध्वं द्व्यर्धाङ्गुल प्रमाणता संप्राप्ता । यावन्न धारयितव्या इत्यत्र ज्ञानं भव[तीति वेदितव्यम् । ग्रन्थोऽ ] त्र २ – आरण्यकेन भिक्षुणा द्व्यङ्गुला बाला धारयितव्या, अर्वाक् ग्रामान्तिकेन इति । केचित् – 'द्वयङ्गुलावर्ता' इति द्व्यङ्गुलस्थाने अधीयते । यद्यस्य पाठस्य द्वयङ्गुलप्रमाण आवर्तो येषां इत्यर्थः, अनर्थान्तरत्वं पूर्वकात्पाठात् ॥ अथ द्व्यङ्गुलस्य आवर्त इत्ययुक्तता । लिङ्गान्तर्धानभूतत्वात् इयतो

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134