________________
१ प्रव्रज्यावस्तु
२७
दुष्टं । नोपस्थापयेत्, वासस्थानेऽपि अन्तर्दाने, न अनुपरिवारित्वेन च, न केवलं निश्रयदाने । तथा च भिक्षुणा पर्षद् दूषकपर्षद्, न उपस्थापयितव्या, उपस्थापयति सातिसारो भवति । इत्युक्त्वा कियता पर्षद् दूषिका ] पर्षद् इति वक्तव्या ? | जातितो वर्णसंस्थानेन च ॥ कथं जातितः ? । रथकारचण्डालपुक्कसकुलात् ॥ कथं वर्णसंस्थानतः ? हरिद्रकेशा इत्याद्यत्रोक्तम् ॥ ( १५४) युज्यते नैकस्योपाध्यायस्य एकेन वचसा उपसंपादनं श्रात्रयात् ॥ श्रनेकस्येति द्विप्रभृते: । एक उपाध्यायः अस्येति एकोपाध्यायः, तस्य । एकेन वचसा इति एकप्रज्ञप्त्या । कि यतोऽनेकस्य इत्याह । श्रात्रयात् * [48b त्रिभ्यो यावत् युज्यते, न परेण इत्यर्थः ॥ 'न गणो गणस्य कर्माणि करोति' इत्यागमात् ॥ केचित् -- अंगीकृतोपाध्यायभेदं अत्र ग्रन्थं कुर्वते“लभ्यं भदन्त एककाले एकक्षणे एकेन कर्मकारकेण एकया ज्ञप्त्या द्वाभ्यां कर्माणि कर्तुम् ? कृतानि च वक्तव्यानि ? न च संघः तेन सातिसारो भवति' ? – 'लभ्यं उपालिन् स चेत् कर्मकारको भिक्षुः प्रतिबलो भवति । उपाध्यायानां नामपरिकीर्तनं कर्तुं उपसंपत्प्रेक्षाणां च ज्ञप्तिं च न हापयति कर्म च करोति' इत्यादि ॥ आर्यउपालिनो दासकः पालकश्च श्रामणेरकौ सप्रेमको गतौ, अन्योन्यानुरक्षयाऽयुगपत् नोपसंपाद्यौ, [तस्मात् पृथक् ] द्वौ नोपसंपद्यते । एतन्निदानं एकोपाध्यायस्य अनेकस्य उपसंपादनानुज्ञाने, अस्मान्निदानात् एकोपाध्यायस्य अनेकस्याङ्गीकरणं अत्र 27 निदानात् दृश्यते । इत्येवं अङ्गीकृतं न चैतं प्रयुज्यते । ( १५५ ) श्रभावः 'तुल्यसमयानां परस्परं सामोचीकरणस्य ॥ एककाले एककर्मवाचनोपसंपादितानां पृथग्वा उपसंपन्नानां येषां तुल्यसमयः तेषां सामीचीकरणस्य परस्परं अभावः । सामीची वन्दना ॥ ( १५६ ) संप्राप्ते प्राथम्यम् ॥ तुल्यममयानां लाभकर्मादानोद्देशादि स्थानं, यः प्रथमं संप्राप्तः 'यथागतिकया लाभो ग्रहीतव्यः' इति वचनात् तस्य लाभग्रहणे प्राथम्यम् ॥ कर्मादाने यः पश्चादागतः तेन पूर्वकर्म कर्तव्यम् पश्चादागतः कर्मादाने प्रथमं इति [ 6 ] ' वचनात् । प्रथमं कार्यतादि अयमर्थः । लाभग्रहणे प्रथमं स्थानं संप्राप्ते प्राथम्यम्, कर्मादानकरणे पञ्चात्स्थानं संप्राप्ते प्राथम्यमिति । (१५७) न द्व्यङ्गुलादूर्ध्वं श्रारण्यकः केशान् धारयेत् ।। ( १५८ ) नैतद् अर्वाक्त्वात् ग्रामान्तिकः । अर्वाग्भावः अर्वाक्त्वम् । एतस्य द्वयङ्गुलस्य अर्वाग्भावात् ऊर्ध्वं द्व्यर्धाङ्गुल प्रमाणता संप्राप्ता । यावन्न धारयितव्या इत्यत्र ज्ञानं भव[तीति वेदितव्यम् । ग्रन्थोऽ ] त्र २ – आरण्यकेन भिक्षुणा द्व्यङ्गुला बाला धारयितव्या, अर्वाक् ग्रामान्तिकेन इति । केचित् – 'द्वयङ्गुलावर्ता' इति द्व्यङ्गुलस्थाने अधीयते । यद्यस्य पाठस्य द्वयङ्गुलप्रमाण आवर्तो येषां इत्यर्थः, अनर्थान्तरत्वं पूर्वकात्पाठात् ॥ अथ द्व्यङ्गुलस्य आवर्त इत्ययुक्तता । लिङ्गान्तर्धानभूतत्वात् इयतो