Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 77
________________ ३० विनयसूत्रवृत्त्यभिधानव्याख्यानम् मुद्गादेः गन्धपरिभावितं चूर्णमिति ॥ सर्वाधिकारिताऽत्र ॥ (१८५-१८६) प्रतिग्रहणमस्य ॥ भैषज्यपरिभावितस्य च ग्लानेन ॥ इति, 'कल्प्यते' इत्यनुषङ्गः ॥ (१८७) न भिक्षुणी योषिति चूर्ण क्षिपेत् ॥ स्नानकाले अपि अन्यदाऽपीति-विशेषापरिग्रहात् प्रतिपत्तिः नग्न (त्व)-"परिहारप्रसंगेन उच्यते ॥ (१८८) नोऽग्रथिताधस्त्यपूर्वपश्चिमनिवसितान्तो निश्रयणीमधिरोहेत् ॥ निवसितस्य वाससः पूर्वपश्चिमाधस्त्यः अधस्ताद्भवान्तः अग्रथितो येन इत्यर्थः । कौपीनदृष्टि-परिहारम् एतद् । वृक्षाद्यधिरोहेऽपि च कौपीनदर्शनस्य संवित्तिः । तस्मात् निदर्शनमत्र निश्रयणी-ग्रहणं प्रतिपत्तव्यम् । आपदि अधिरोहे यत्प्रतीकारार्थं योऽधिरोहः तस्य चेत् निवसनस्यैव ग्रथनेनोपरोधः अनुरक्ष्यत्वमस्य । न चेन्नेति, वृक्षाधिरोहानुज्ञानात् गन्तव्यम् ॥ (१८९) न अन्यदा एवं स्यात् ॥ निश्रयण्यधिरोहणाद् अन्यस्मिन्काले न ग्रथिताधस्त्यपूर्वपश्चिमनिवसितान्तेन[सामीचीस्थितेन] भवितव्यमित्यर्थः। अन्तर्मुखस्य कौपीनपक्षत्वं इति तन्नाग्न्यस्य अत्र प्रदेशे परिहरणमुच्यते। (१९०) न अप्रतिच्छन्न-वक्त्राय प्रवृति भजेत ॥ अप्रतिच्छन्नस्य वस्त्रादिना या अवृतिः अप्रतिच्छन्नवक्त्राय अवृतिस्तां न भजेत् । 'विजृभमाणेन भिक्षुणा हस्तेन मुखं प्रतिच्छादयितव्यम्' इत्यत्र ग्रन्थः । निदर्शनमत्र हस्तो व्यवतिष्ठते ॥ विजु भणं च कामकारो यद्विधारणं प्रतीतमधिकृत्य एतदेवमुक्तम् । असति आशक्तौ यदपावरणं न तद्भजने दोषः ॥ (१९१-१९२) धारयेत् स्नात्रशाटकम् ।। प्रासक्तिः द्विपुटे प्राणकानाम् ।। सक्तिरिति वक्तव्यं ग्रन्थच्छाया-[PlateII'] ' या संपत्त्यर्थं 'आ-इति 1 उपादानम् । कारणादेशमेतद् । यस्मात् सक्तिः द्विपुटे वाससि प्राणकानां, तस्मान्न सप्राणकेऽम्भसि तद्विधेन वाससा स्नातव्यमित्यर्थः।। (१९३) त्रैचीवरिकोऽपि इति ॥ धारयेत् स्नात्रशाटकमित्युनुबन्धः । ग्रन्थोऽत्र-“भगवानाह-त्रैचीवरिकेण भिक्षुणा स्नात्रशाटको धारयितव्यः' इति ॥ केचित् 'अनधिष्ठाय धारयितव्यः' इत्यधीयते, तद्युक्तम् । स्नात्रशाटकं समेत्य अनुत्पादिते संकल्पे नैःसर्गिकस्य उत्थानात् नियतं एष संकल्पोऽत्र उत्पादयितव्यः । अस्य चोत्पादने जातं भवति अत्र मानसस्य अधिष्ठानस्य कर्तव्यत्त्वम् । ततश्च अन्यस्याधिष्ठानस्य करणं युक्तम्, सुकरत्वात् वाचिकस्य । अस्मादेव अनुज्ञानात् न अनेनास्य समादानदंशो भवतीति वेदितव्यम् ॥(१९४)पत्राणि अभावे दत्त्वा पुरतः पृष्ठतश्च प्रतिगुप्ते प्रदेशे स्नानमिति ॥ सर्वे न त्रैचीवरिका एव । [अत्र ग्रन्थः]-अपरेषां स्नात्रशाटकस्य प्राप्तिर्नास्ति, भगवानाह-तैः पत्राणि पुरतः पृष्ठतश्च दत्वा प्रतिगुप्ते प्रदेशे स्नातव्यमिति अविशेषेण एतदभिहितम् ॥ (१९५) मोचनेन सक्तस्य प्राणिनः अपगतिः ॥ एकपुटात् अत्यासक्तिः द्विपुटे प्राणकानामिति अतः प्रतिपत्तिः। नास्य शाटके द्विपुटत्वस्य अभावः । तस्मात् नानेन सप्राणकेऽम्भसिं स्नातव्यमित्यत्र स्थितं वेदितव्यम् ।।(१९६) उदकभ्रमे 12

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134