________________
३०
विनयसूत्रवृत्त्यभिधानव्याख्यानम् मुद्गादेः गन्धपरिभावितं चूर्णमिति ॥ सर्वाधिकारिताऽत्र ॥ (१८५-१८६) प्रतिग्रहणमस्य ॥ भैषज्यपरिभावितस्य च ग्लानेन ॥ इति, 'कल्प्यते' इत्यनुषङ्गः ॥ (१८७) न भिक्षुणी योषिति चूर्ण क्षिपेत् ॥ स्नानकाले अपि अन्यदाऽपीति-विशेषापरिग्रहात् प्रतिपत्तिः नग्न (त्व)-"परिहारप्रसंगेन उच्यते ॥ (१८८) नोऽग्रथिताधस्त्यपूर्वपश्चिमनिवसितान्तो निश्रयणीमधिरोहेत् ॥ निवसितस्य वाससः पूर्वपश्चिमाधस्त्यः अधस्ताद्भवान्तः अग्रथितो येन इत्यर्थः । कौपीनदृष्टि-परिहारम् एतद् । वृक्षाद्यधिरोहेऽपि च कौपीनदर्शनस्य संवित्तिः । तस्मात् निदर्शनमत्र निश्रयणी-ग्रहणं प्रतिपत्तव्यम् । आपदि अधिरोहे यत्प्रतीकारार्थं योऽधिरोहः तस्य चेत् निवसनस्यैव ग्रथनेनोपरोधः अनुरक्ष्यत्वमस्य । न चेन्नेति, वृक्षाधिरोहानुज्ञानात् गन्तव्यम् ॥ (१८९) न अन्यदा एवं स्यात् ॥ निश्रयण्यधिरोहणाद् अन्यस्मिन्काले न ग्रथिताधस्त्यपूर्वपश्चिमनिवसितान्तेन[सामीचीस्थितेन] भवितव्यमित्यर्थः। अन्तर्मुखस्य कौपीनपक्षत्वं इति तन्नाग्न्यस्य अत्र प्रदेशे परिहरणमुच्यते। (१९०) न अप्रतिच्छन्न-वक्त्राय प्रवृति भजेत ॥ अप्रतिच्छन्नस्य वस्त्रादिना या अवृतिः अप्रतिच्छन्नवक्त्राय अवृतिस्तां न भजेत् । 'विजृभमाणेन भिक्षुणा हस्तेन मुखं प्रतिच्छादयितव्यम्' इत्यत्र ग्रन्थः । निदर्शनमत्र हस्तो व्यवतिष्ठते ॥ विजु भणं च कामकारो यद्विधारणं प्रतीतमधिकृत्य एतदेवमुक्तम् । असति आशक्तौ यदपावरणं न तद्भजने दोषः ॥ (१९१-१९२) धारयेत् स्नात्रशाटकम् ।। प्रासक्तिः द्विपुटे प्राणकानाम् ।। सक्तिरिति वक्तव्यं ग्रन्थच्छाया-[PlateII'] ' या संपत्त्यर्थं 'आ-इति 1 उपादानम् । कारणादेशमेतद् । यस्मात् सक्तिः द्विपुटे वाससि प्राणकानां, तस्मान्न सप्राणकेऽम्भसि तद्विधेन वाससा स्नातव्यमित्यर्थः।। (१९३) त्रैचीवरिकोऽपि इति ॥ धारयेत् स्नात्रशाटकमित्युनुबन्धः । ग्रन्थोऽत्र-“भगवानाह-त्रैचीवरिकेण भिक्षुणा स्नात्रशाटको धारयितव्यः' इति ॥ केचित् 'अनधिष्ठाय धारयितव्यः' इत्यधीयते, तद्युक्तम् । स्नात्रशाटकं समेत्य अनुत्पादिते संकल्पे नैःसर्गिकस्य उत्थानात् नियतं एष संकल्पोऽत्र उत्पादयितव्यः । अस्य चोत्पादने जातं भवति अत्र मानसस्य अधिष्ठानस्य कर्तव्यत्त्वम् । ततश्च अन्यस्याधिष्ठानस्य करणं युक्तम्, सुकरत्वात् वाचिकस्य । अस्मादेव अनुज्ञानात् न अनेनास्य समादानदंशो भवतीति वेदितव्यम् ॥(१९४)पत्राणि अभावे दत्त्वा पुरतः पृष्ठतश्च प्रतिगुप्ते प्रदेशे स्नानमिति ॥ सर्वे न त्रैचीवरिका एव । [अत्र ग्रन्थः]-अपरेषां स्नात्रशाटकस्य प्राप्तिर्नास्ति, भगवानाह-तैः पत्राणि पुरतः पृष्ठतश्च दत्वा प्रतिगुप्ते प्रदेशे स्नातव्यमिति अविशेषेण एतदभिहितम् ॥ (१९५) मोचनेन सक्तस्य प्राणिनः अपगतिः ॥ एकपुटात् अत्यासक्तिः द्विपुटे प्राणकानामिति अतः प्रतिपत्तिः। नास्य शाटके द्विपुटत्वस्य अभावः । तस्मात् नानेन सप्राणकेऽम्भसिं स्नातव्यमित्यत्र स्थितं वेदितव्यम् ।।(१९६) उदकभ्रमे 12