________________
३१
१ प्रव्रज्यावस्तु विहारे एतदिति ॥ विहारे चेदिति एतद् स्नानं क्रियते उदकभ्रम एव कर्तव्यं नान्यत्र ॥ (१९७) च्छोरणं च द्रवस्य ॥ इति पादप्रक्षालनादिकस्य द्रवस्य उदकभ्रम एव च्छोरणं नान्यत्र ॥ (१९८-१९९) करणं स्नात्रशालिकायाः ॥ [अस्यां] इष्टकास्तारस्य प्रादानम ॥ [अस्यां"] स्नात्रशालिकायाम् ॥ (२००) उदकनमस्य मोक्षः । स्यन्दनिकायाः शोचनम् ॥ भगवानाह-उदकभ्रमो प्रोक्तव्यः। स्यन्दनिका भवति, भगवानाह, कालानुकालं शोचयितव्या। अपि तु उदकभ्रमे एव स्नातव्यमिति, तत्संग्रहार्थमाह ।। (२०१) भ्रमे स्नातौ अनुत्थानम् ॥ स्यन्दनिकाया इत्यनुबन्धः । स्नातिः स्नानम् । स्यंदनिका इति प्रतिविधेः आख्यानमेतद् । भ्रमे स्नाने सति अनुत्थानं स्यन्दनिकायाः। न तु भ्रमे एव स्नातव्यमिति नियमभूतं, स्नानार्थत्वात् शालिकायाः ॥ (२०२) नेट्टनोद्घर्षेण कायं शोधयेत् पादाभ्यामन्यम् ॥ न इट्टनेन भिक्षुणा कायो घर्षितव्यः इति ग्रन्थः । अन्यमिति पादव्यतिरिक्तम् । तयोः तु अप्रतिषेधः ॥ (२०३) निदर्शनमेतद् तीक्ष्णशौटीरयोः ॥ इट्टनम् कीदृशस्य द्रव्यस्येत्याहतीक्ष्णशस्त्रकादि, शौटीरं षौनकादि चित्तविकारसंपादनात् । आज्ञप्तं भगवता-न इट्टनेन कायो घृषितव्य इति । भिक्षवः शुक्त्या घृषन्ति, भगवानाह-मुण्डशुक्तिः करणीया इत्यत्र ग्रन्थः। अत्र हि तीक्ष्णत्वात् शुक्तेः प्रतिषेधः। तस्मात् निदर्शनं इट्टनम् । अन्यस्यापि तीक्ष्णस्य शौटीरस्य च द्रव्यस्य तेना-[Plate II a ]'पि कायो नो घृषितव्यः ॥ (२०४) अग्निना शुक्तेः शोधनम् ॥ प्रतापनमात्रकं च अग्निना अस्याः शोधनम् । अन्यथा शुक्त शात् ।। (२०५) न किञ्चित्केनचित् आमुष्टिचलवर्ते(:) भिक्षुणी उद्धृषेत् ।। न किंचिदिति कायम्, मृदुस्त्रीशरीरम्, मृदुश्लक्ष्णादपि तस्मिन् विकारस्य संपत्तिः । सुनिकृष्टेनापि एतत्करणे स्त्रियः सौटीरापितत्वमिति भिक्षुणीषु सर्वप्रतिषेधः भवति । किञ्चिन्मुष्टि[तः]२ सुकुमारान्तरं वस्त्रमिति, मुष्टिमात्रत्वेन उक्त्वा चैलवर्तेः वचनम् ॥ (२०६) न अनपगतसंभावकोदकः चीवराणि प्रावण्वीत ॥ प्राब्रियमाणचीवरविनाशपरिहारार्थमेतद् । तस्मादेषां उदकं अनपगतं यस्य इति गतिः । यः आधानं न इच्छेत्प्रतीक्षितुं, तं प्रति उत्तरौ विधी ।। (२०७-२०८) धारयेत्कायप्रोञ्छनम् ॥ प्रभावे मुहूतं उत्कुटुकेन स्थित्वा स्नात्रशाटकेन' प्रोञ्छनमिति ।। यावता वा अनेन संपन्नेन स्नात्रशाटकप्रोञ्छनार्थसंपत्तिः तावताऽस्य यावत्या कालमात्रया संपत्तिः तदुपलक्षणमत्र मुहूर्तः। स्तोकस्य वा यस्य तस्य मुहूर्तमिति अभिधानमेतद् । उत्कुटुकेन स्थित्वा इति एवं आशु-अपगमस्य अम्भसः कायात् संपत्तिः गुप्तरूपं चैतदवस्थानम् । अतोऽस्य [नाग्न्यस्य ] न युक्तं भजनमित्यत्र संश्रयणम् ॥ (२०९.२१०) प्रतिषेवेत जेन्ताकम् ॥ करण्डस्य करणं उच्छकरे साधु ॥ जेन्ताकार्थं आवासः करण्डकः । उद्गतशर्करम्, उच्छर्करे प्रदेशे करण्डः