________________
१ प्रव्रज्यावस्तु
२.
संकक्षिकया ॥ केशप्रतिग्रहणस्य:०b चीवरस्याभावे संकक्षिकया आवृतया केशश्मश्रू अवतारयेत् ।। (१७१) न संस्तरे । इति 37 न केशश्मश्रू अवतारयेत् । निवानेष्वपि
"आदावेव नखच्छेदनम् इति एतदन्ते ग्रन्थः ॥ (१७२) न यत्र सांधिक-संमार्जनीनिपातः ॥ इति विहाराधिकारिकमेतद् ॥ (१७३-१७४) अवतारयेत प्रासादादी जीर्णो ग्लानो वा वातातपवर्षेष च ॥ तं प्रदेशं परिकर्मयेत् ॥ निष्केशत्वं निरुदकत्वं च परिकर्मणः। तद्यथा संपद्यते तथा करणीयम् ॥ (१७५) संकीर्णे बालोच्छारणम् ॥ ५ससंकारे प्रदेशे इत्यर्थः ॥ (१७६) एवं नखच्छेदनम् ॥ न संस्तरे इत्यादेः एषोऽतिदेशः। ३'केशप्रतिग्रहे निपुणग्राहिणी क्रियमाणा भूमौ कृता भवति । तस्मात् नात्रच्छेदनेन यत्र सांधिक-संमार्जनी निपातः। इत्यस्य अतिक्रान्तत्वं, परिकर्मभव्यता वा भूमेः । केशश्मश्रु-अवतारणे अस्य परिहारस्य असंभवो वेदितव्यः ॥ (१७७) न अनधिष्ठिता भिक्षुणी एषा पुरूषणावीतरागा केशांश्छेदयेत् ।। एषा इति भिक्षुणी अवीतरागा इति; 'अनापत्तिर्यदि वीतरागा स्यात्' इत्यत्र ग्रन्थः । छेदयेत इति मुण्डनस्य चैतदत्रैवं वचनम् । अथ महाप्रजापती गौतमी पञ्चभिः शाक्यायनिकाशतैः सार्धं स्वयमेव केशांश्छेदयित्वा काषायाणि वस्त्राणि आच्छाद्य इति केशच्छेदनस्य उक्तस्य [एवमेव त्वं गौतमी मुण्डा शोभना]' इति मुण्डात्वेन अभिधानात्; दीर्घत्वात् केशानां अन्य-मुण्डने सनिमित्तमेतदभिधानम् । अन्यत्र अनुव्यवहारः-अवीतरागा भिक्षुणी भिक्षुण्या अनधिष्ठिता sac न [पुरुषेण] केशांश्छेदयेत् इत्यर्थः ॥ (१७८) संरज्यमानां अधिष्ठात्री समनुशिष्यात्-‘स्मृतिमुपस्थापय किमस्मिन् कलेवरे सारमस्ति' इति । [Plate II''] संरज्यमानां इति कल्पके तां भिक्षुणीम् ॥ (१७९) मातृसंज्ञा भगिन्या दुहितुश्चेति कल्पके 7 उपस्थापय इति । संरज्यमानां अधिष्ठात्री समनुशिष्यात् -मात्रादिसंज्ञामुपस्थापय इति ॥ (१८०) स्नानं कृतेऽत्र कुर्वीत इति ॥ अत्र इति केशश्मश्रु-अवतारणे ॥ (१८१) पञ्चाङ्गिक वा शौचमिति ॥ कल्पान्तर-उपादानार्थं वा शब्दः । सत्यपि पानीयस्य संभवे, कल्पत एवैतद्-'भिक्षुणा केशप्रतिग्रहणं धारयितव्यम्, स्नातव्यं वा, अन्ततो हस्तपादा प्रक्षालयतिव्याः' इत्यत्र ग्रन्थः ॥(१८२) न नग्नं स्नायात् इति । त्रिमण्डलाच्छादितत्वे परिपूर्ण अनग्नत्वम् । यावत् त्रिमण्डलाच्छादिते रोमाङ्गजातयोः छादित्वम्, तावत् छादितत्वेन सर्वस्य (अपरस्य) अपरिहर्तव्यता इति एतद् अत्र सामर्थ्यात् गन्तव्यम् ॥ (१८३) न भिक्षुणी पुरुषतीर्थे स्नायात् , न स्त्रीतीर्थे चूर्णेन इति ॥ पुरुषतीर्थे भिक्षण्याः स्नानस्य एव प्रतिषेधः । स्त्रीतीर्थे तु मुद्गचूर्णादिना, केवलस्य (प्रादेशिक स्नानस्य)7 अप्रतिवेधः । 'द्वादशवगिण्यः स्त्रीतीर्थे स्नान्ति, गृहपति-पत्नीनां स्नान्तीनां औद्धत्यं कुर्वन्ति, माषचूर्णादि क्षिपन्ति । भगवानाह-न भिक्षुण्या स्त्रीतीर्थे चूर्णेन स्नातव्यम्' इत्यत्र ग्रन्थः ॥ (१८४) कल्भ्यते