Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 75
________________ २८ विनयसूत्रवृत्त्यभिधानव्याख्यानम् दीर्घत्वम् अस्य येन च निदानदोषे शिक्षा पदं प्रज्ञप्तं तद्दोषापातस्य च तदवस्थत्वात् । यस्मात् अतिरिक्तपञ्चाङ्गुलमेत्त्प्रमाणं प्रव्रज्याकालिक मुण्डनादिविधानात् परतोऽपि मुण्डनादिः करणीयत्वं न्याय्यम्" । इत्यत्र अस्य स्थाने विनिवेशनम् ॥ ( १५६ - १६२ ) न गोलोमकान् केशान् छेदेत् ।। मुक्त्वा व्रणसामन्तकम् ।। न चूडां कारयेत् ॥ न संबाधि- [ प्रदेशे ] ४ रोमकर्म कारयेत् ॥ इति ॥ " न कारयेदिति अनुषङ्गः। संबाध-प्रदेशो गुह्यस्थानम् ॥ ( १६३) कारयेत् व्रणनिमित्तं प्ररूढो प्रन्यथा विज्ञान् स्थविरस्थविरान् श्रवलोक्येति । श्ररूढौ अन्यथेति - भगवानाह - 'कषायैः (पञ्चभिः ततः) शोधयितव्यम् । पश्चात् यदि स्वास्थ्यं न भवति, सूत्रधरविनयधर-मातृकाधरान् भिक्षून् आपृष्ट्वा संबाधश्मश्रु कारयितव्यम्' इत्यत्र ग्रन्थः ॥ तत्र निदर्शनमेतद्, शोचनविधानं युज्यते इति प्रकारान्तराण्यपि चिकित्सितस्य अवरुद्धानि, स्थविरस्थविरान् भिक्षूनवलोक्य व्रणनिमित्तं प्राणकनिमित्तं वा संबाधे " प्रदेशे रोमकर्म कारयितव्यमिति । अपरेषां अत्र ग्रन्थः, तत्र प्रमुखविदितं कृतमिति एतदवलोकनम् । द्वाभ्यां च वृद्धाभ्यां प्रमुखत्वं शीलतो. धर्मविनयाभिज्ञतया च, इत्युभयमपि एतद् अवलोक्यगतं संगृहीतम् विज्ञातं तत्र । पिटकधरत्ववचनं विज्ञानम् । प्राणकनिमित्तं अत्र व्रणगतप्राणकाभिप्रायं युज्यते, न यूकाद्यभिप्रायम् । अस्य च व्रणनिमित्तत्वेनैव अन्तः कृतत्वमिति न गृहीतम् । ( १६४ ) न श्रङ्गनाडीमपि [तन्निमित्तं ] " कारयेत् ॥ " अतन्निमित्तं इति अव्रणनिमित्तं । जङ्घामुण्डनं अङ्गनाडी ।। (१६५) न अन्यत्र काये || इति । संबाध - अङ्गनाडीभ्यां अन्य ग्रीवातः प्रभृति यः कायानुव्यवहारः तत्र एष रोमकर्म-प्रतिषेधः । तस्मान्नानेन केशश्मश्रुणोऽपि कर्तव्यताप्रतिषेधः । नासारोम्णः शातनस्य अभूद्वचनं इति प्रसिद्धे प्रत्ययः । मातृका[Plate II 6 b] ' यम्मत्र ग्रन्थः - केशश्मश्रू स्थापयित्वा तदन्येषु अंगप्रत्यंगेषु रोम न शातयितव्यम् । यः शातयेत् दुष्कृतः स्यात् आपत्तिः इति ॥ ( १६६-१६८) क्षुरधारकं वा नखच्छेदं भजेत वासीमुखं वा ॥ नंषां सृष्टि भजेत् ॥ भजेत लेखं मलावकृष्ट्यै । न चीवरेण केशश्मश्रू अवतार येतेति । उपरिप्रावरणस्य अत्र ग्रहणं युज्यते, न अन्तर्वाससः । सर्वस्य च न संघाटि - उत्तरासंगयोः २ एव । अत्र परिभुक्तस्य अन्यदुपरिप्रावरणं युज्यते । इत्यत्र प्रतिक्षेपनिमित्तस्य व्यवस्थापनात् ॥ (१६९) धारयेत् केशप्रतिग्रहणम् ॥ इति चीवरं केशप्रतिग्रहणम्, तदर्थमेव यस्य उपयोगः । प्रतिगृह्यन्ते अनेन केशाः इति तु निरुक्तिः । चीवरमिति कुत एतद्, 'चीवरं केशप्रतिग्रहणं अधिष्ठानं 5 ०' इति अधिष्ठान मन्त्रे 50 वचनात् । कथं पुन एतद् विज्ञायते ३ प्रावरणार्थमिति ? न पुनः तत्रैव केशानामवतारणार्थमिति ॥ श्रभावे कक्षिकाभिधानात् । अप्रतिक्षेपं हि संकक्षिकायां केशावतारणम् । (१७०) प्रभावे a

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134