Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 56
________________ १ प्रव्रज्यावस्तु 29 येनार्थेन असौ उपाध्यायः तस्मिन्नवसितेऽर्थे जातत्वमित्याह - (२७) श्रभ्युपगतावु - पाध्यायस्य यावायां तदुद्भूतिः ॥ याञ्चाकाले उपाध्यायस्य याऽभ्युपगतिः तस्यां उपाध्यायत्वस्य उद्भूतिः । न प्रव्रज्योपनयने उपसंपन्नलक्षणस्य वा आवृत्तेऽर्थे । येनार्थेन वृत्तेनैषां [आचार्यत्वोपा] ४ ध्यायत्वानां जन्म, तस्यार्थस्य 8 कदा वृत्तता इत्याह(२८) श्रावृत्ती तृतीयेऽङ्गे प्रत्यायां वृत्तत्वम् ॥ यत्रावर्त्ती सोऽर्थो, यदंशं ' ' आचार्यत्वादीनां वृत्तत्वं सा आवृत्तिः । तस्यां अर्थस्य वृत्तत्वम् । तिस्रश्च ताश्चावृत्तयः । तत्र न ज्ञायते क[त]रस्यामावृत्ती आवृत्तेर्वा कतमस्मिन्नंश इति । तत्र इदमुच्यते-तत्र अन्त्यायां पश्चिमा [याम् । तदावृत्ति ] " स्तस्याः तृतीयो योंऽशः तस्मिन् तस्यार्थस्य [वृत्तत्वं] मन्तव्यम् ॥ उदाहरणेन एनमर्थं प्रज्ञपयति - ( २ ) तद्यथा पत्कीर्तनका श्रामणेरत्वस्य || परस्य उपनेतुः उत्कीर्तनकाले । श्रामणेरं च मामित्यतः परस्तात् 'आचार्य' इति यत्परोत्कीर्तनं, तत्र श्रामणेरत्वकारके यः उपनेतुः अर्थः श्रामणेर संवरो नाम, तस्य वृत्त [ त्वं मन्तव्यं, आ-] 'चार्यो धारयतु इत्यत्र मन्तव्यम्, न भदन्तो धारयतु इति ॥ (३०) पश्चिमेऽत्र उपाध्यायत्वस्य इति । वृत्तत्वं इति वर्तते ॥ श्रत्रेति परोकीर्तन का बहूपाध्याययाचने 'समन्वाहर' इति शब्दात् भिक्षुसंबंधोत्कीर्तनात्पराणि उपाध्यायोत्कीर्तनानि । तत्र यत्तृतीयोत्कीर्तनं उपाध्यायेन प्रव्रजिष्यामि उपसंपत्स्ये वा इति, तः पूर्वं यः [तस्मिन्काले] उपाध्यायार्थः तस्य अम्युपगम [स्य ] आत्मनो वृत्तत्वम् । तस्मिन्नेव काले प्रव्रज्यायामुपाध्यायेन इति वक्तव्यम् । उपसंपदि च । यदि पूर्वमेव नोपाध्यायो भवति, नाचार्येण वा, भदन्तेन वा इति । अप्रच्छेदतः चात्र तृतीयोंऽशो " ० वेदितव्यः, नाक्षरपरिमाणतः । एवं हि उपाध्याययाचने त्रयः प्रच्छेदाः भवन्ति - 'अहं एवं-नामा भदन्तमुपाध्यायं याचे' | '[भदन्तो] [Plate I 5a ] ' मे उपाध्यायो भवतु' । 'भदन्तेनोपाध्यायेन प्रवजिष्य, उपसंपत्स्ये वा' इति ॥ श्रामणेरत्वोपगतौ तु प्रबंधप्रच्छेदौशरणगमनं श्रामणेरत्वाभ्युपगमश्च । तत्र पश्चिमं प्रच्छेदं अवान्तरार्थानुगत्या श्रामणेरं मामिति, आचार्यो धारयतु इति द्विधा कृत्वा त्रित्वमध्यवसितम् । कस्मात्पुनः असमामायामेव आवृत्ती तृतीयेऽङ्गत्वस्य वृत्तत्वं भवति, यद्भूयः २ कृतं इति" कृत्वा सर्वेष्वेव चायं सीमाबन्धादिषु विधिर्द्रष्टव्यः । तदेवं रहोऽनुशासकस्य अपर्यवसितायां रहस्यनुशिष्ट आचार्यत्वं श्रामणेरत्वोपनायिनोऽत्र काले कर्मकारकस्य एवंविधमिति कृतम् ॥ निश्रयदायकपाठकयोः कंदा इति न ज्ञायते । अनवस्थितत्वात् निश्रयदानपाठकयोः परिमाणस्य ॥ तत्र यावता अनयोः आचार्यता-कृ [त] त्वं तदाख्यायते—- (३१) पर्यन्तो निःश्रयदानस्येक रात्रं निश्रयत्वेन प्रत्युपस्थानम् ॥ एकरात्रः एकोऽहोरात्रः, एकरात्रम् । निश्रयाचार्यस्य निश्रितं प्रति निश्रयत्वेन यत्प्रत्युपस्थानमेव [पर्यन्तत्वं ], निश्रयदानस्य पर्यन्तः । तथा च ग्रंथ: - 'निश्रयाचार्यः कतमः यस्यान्तिके एकामपि 80

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134