Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 61
________________ विनयसूत्रवृत्त्यभिधानस्धव्याख्यानम् उपानह-दन्तकाष्ठ-पाठ-स्वाध्यायोपसंहाराणां करणप्रतीष्टोः तज्जातीयस्य भिक्षोरन्तिकादिति विशेषपरिग्रहात् अभिप्रेतमत्र अभिनमनभूतं इति गम्यते । दुष्टोऽत्र प्रवजितो ज्ञातः शंकितो वा अनापृष्टो[अपरित्यक्त] 'व्यो(?), नान्यः। न हि पठति, स्वाध्यायं वा कुर्वति, उपसंहारस्य तदनुरूपे काले करणं इत्यादेः करणयीत्वेन प्रज्ञानम् । अभिनमनप्रकारत्वेन ह्येतस्य मनसि निलयनम् । दुष्टे तु विपक्षानुगतित्वेन एतत्प्रतिभाषमाणं आरम्भत्वेन ख्यातिमुपगच्छति । तस्मात् यत्र यत्नः कर्तव्य इत्यत्राभिप्रायो दृश्यते । उदकपानस्य अनापृच्छाकरणं अनेन प्रविचारेण कृतं वेदितव्यम् ॥ तद्विधं ह्येतद् यद्विधं धर्मितस्य गात्राणामुदकेन संस्पर्शनम् ॥ निश्रितवृत्तं उच्यते-(७३) पात्रचीवरकर्मणि, ग्लानोपस्थाने, कोकृत्यप्रतिविनोदने, पापकदृष्टिगतप्रतिनिःसर्गे तीवं औत्सुक्यमापद्येत-अहो बत अहं कुर्याम् कारयेयं वा इति ॥ रङ्गकर्म अपि अत्र केचित् पठन्ति । तस्य चीवरकर्म [Plate I 7 b]'णो नातिरेकात् ग्रहणम् ॥ (७४) संघे प्रणिधातुकामे-उत्क्षेपणीयादि-प्रणिधिकर्म कर्तुकामे संघे अहो बत संघो निश्रयस्येदं प्रणिधिकर्म न कुर्यात् ॥ इति तीव्रमौत्सुक्यमापद्यते, निवर्तते-यावत् आबृहेत् इति सर्वत्रैतदनुषक्तं वेदितव्यम् ॥ (७५) कृते अवसारयेत् ॥ इति प्रणिधिकर्मणि कृते-अहो बत संघोऽस्य अवसारयेत् इति ॥ (७६) परिवा[स]-मूलपरिवासमानाप्य मूलमानाप्य-प्राबहणाथिनि निधये अहो ब्रत संघो प्रस्य परिवासादिचतुष्कं दद्यात्, आबहणार्थिनि अहो बत प्राबहेत् इति ॥ (७७) सोऽप्येतदस्मै कुर्यात, उत्सृज्यावलोकनम् ॥ सोऽपि निश्रयः । एतद् पात्रचीवरकर्मादि । अस्मै निश्रिताय कुर्यात् । उत्सृज्यावलोकनं अवलोकनमेकं मुक्त्वा ॥ (७८) नोनदशव[र्षः उपसंपदः उ]-पाध्यायत्व-निःश्रयत्व-अनिश्रितवासान् कुर्यात् ॥ उपसंपदाय ऊनदशवर्षः स एतत् त्रयं न कुर्यात् ॥ (७६) अनून-दशवर्षोऽपि उपसंपदा, नासमन्विति: केनचिदनन्तरेभ्यः समायोगेन ॥ येऽनन्तरं वक्ष्यमाणाः पञ्चाङ्गिकाः समायोगा:33 b तेभ्यः येन केनचित् एकेनाऽपि समन्वितो योग्यो[नाऽन्य इति भावः । एवञ्च यदुक्तं अपरैरपि पञ्चभिर्धर्मैः समन्वागतेन इत्यत्र न समुच्चयो विज्ञातव्यः एभिः इमैश्च अपरैरिति । अपि तु एभिः तावत्कर्तव्यं इत्युक्तम्, इमैरपि अपरैः इति विकल्पः ॥ कुत एतद् ? । असंभवात् सर्वासामासां पश्चिकानांssb साक्ष्यस्य । आद्यायां तु पञ्चिकायां दशवर्ष[त्वाङ्ग] उक्ते दशवर्षों भवत्युपसंपदेति । तदेभिः दशवर्षग्रहणं आदी सर्वस्य उत्तरस्य एष विषयपरिग्रह इति ख्यापनार्थम् । स्थितार्थत्वं विनये, दशवर्षत्वे सति उपाध्यायकरणादौ कारणं । विशेषभूतत्वं शेषस्य तत्राऽस्ति चेत् सविशेषत्वं उत्तमकल्पः । न चेत् एतन्मात्रकमपि अत्रावलम्बि[तव्यम् । यथा]' शैक्षत्वादेः विशेषस्य लध्यत्वम् एवमस्यापि दशवर्षत्वे सति विनये स्थितार्थत्वस्येति । ते इदानीं समायोगा

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134