Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute
View full book text ________________
१२
विनयसूत्रवृत्त्यभिधानस्वव्याख्यानम् श्रुणु त्वं आयुष्मन्, अयं ते सत्यकालः, अयं ते भूतकाल इत्यादिना मन्त्रेण आन्तरायिकपरिप्रश्नः ॥ (४६) उपसंपदमुपनयेत् ॥ ज्ञप्तिचतुर्थेन कर्मणा ॥ [अवसरार्थ कर्म]५. कारकः ॥ (५०) छायां वेदयेत अनन्तरं मितामिति ॥ उपसंपदुपनयनानन्तरं छायामुपसंपन्नाय वेदयेतेत्यर्थः । अनन्तरं अविलम्बितम् । कथं वेदयेत इत्याह-मितां सशेषकार्यस्य आसनभङ्गायोगात् कर्मकारकादन्येन अस्य मानस्य योगः ॥ तत्पुनः मानमस्य पदादीनां केन इत्याह-(५१) शंकुनां चतुर[गुलेन एत] साधु ॥ एतदिति मानं चिरत्वाभावाय चतुरङ्गुलेन मानं शोभनम् ॥ (५२) पुरुषत्वेन प्रस्यानुव्यवहारः ॥ साधु इति वर्तते । अस्येति चतुरङ्गलस्य शंकोः, यावन्तः शङ्कवः तावत् पौरुषीच्छाया 2b वक्तव्या इत्यर्थः ॥ (५३) अहोरात्रांशं पूर्वाहणादिकं॥ वेदयेत इत्यनुवर्तते । पूर्वाणो मध्याहन इत्यादि ग्रन्थोक्तम् ॥ (५४) समयं च [पञ्चैते । वेदये]त' । पञ्चते इति समयाः-(५५) हैमन्तिको, ग्रीष्मिको, वार्षिको, मितवार्षिको, दीर्घवार्षिकः इति ॥ परिमाणमेषामुच्यते--(५६) चातुर्मासिकौ पूवौं । हैमन्तिको ग्रीष्मिकश्च ॥ (५७) मासः परः । इति वार्षिकः ।। (५८) ततो अहोरात्रः इति । ततो वार्षिकात्परो मितवार्षिकः एको अहोरात्रः ॥ (५९) तदूनं अन्त्यो मासत्रयम् इति । तेनै [Plate I 6 b] केन अहोरात्रेण ऊनं मासत्रयं, अन्त्यः समयो दीर्घवार्षिकः ॥ समयवेदनानन्तरं उपसंपन्नमात्राय कर्मकारको-(६०) निःश्रयानारोचयेत् ॥ पांसुकूलादयस्ते चत्वारः ॥३३० (६१) पतनीयान् धर्मान् । पाराजिकान् ।। (६२) श्रमणकारकांश्च ॥ आक्रुष्टेन न प्रत्याक्रोष्टव्यमित्यादिकान् आरोचयेदिति वर्तते ।। (६३) संपन्नतां सम्यक्तया च प्रेप्सितस्य उद्ग्राह्य शील सामान्यगतताऽऽरागणे नियुञ्जीत ॥ प्रकर्षणेप्सितं प्रेप्सितं अभिप्रेतम् । यस्ते भूतपूर्व आशासकः 'कच्चिदहं लभेय' इत्यादि इदमस्याभिलषितम्। तस्य संपन्नतामुद्ग्राह्य सत्त्वं, एतर्हि प्रव्रजितउपसम्पन्नेत्यादिना। सम्यकता पुनः सम्पन्नतायाः प्रतिरूपेणोपाध्यायेन इत्यादिना अभिहिता। संपन्नतामुद्ग्राह्य किं कर्तव्यम् इत्याह-शील-सामान्य गतता-प्रारा. गणे नियुञ्जीत ॥ यत्र वर्षशतोपसंपन्नेन इत्यादिना शीलेन सामान्यगतता शीलसामान्यगतता । तस्या आरागणं आराधनम् ॥ (६४) पात्रिकसम्बन्ध-प्रतिबिम्बने नियुञ्जीत ॥ इति सर्वत्र अधिकृतं वेदितव्यम् ॥ पात्रिकसंबन्धो मातापितृसम्बन्धः, तस्य प्रतिबिम्बनं-अद्याग्रेण ते उपाध्यायस्य मातृपितृ-संज्ञेत्यादिना । एवं ते सोऽभ्यस्तो गृहिसंबंधः प्रतिबिम्बयितव्यः इति ॥ (६५) विनीत-संवासतायाम् ।। अद्याग्रेण ते सगौरवेण इत्यादिना ॥ (६६) प्रयोजनानुष्ठाने ॥ अद्याग्रेण ते उद्देष्टव्यमित्यादिना ।। (६) संपत्स्यमानतां असमाख्यातां समात्तपरिज्ञानस्य पाचक्षीत ॥ इमानि च इमानि ते मया औदारिकौदारिको [इत्ये] -वमादिना, संप्रति अनाख्यातस्य समात्तस्य वृत्तस्य
Loading... Page Navigation 1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134