Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 68
________________ १ प्रव्रज्यावस्तु न ऋणवन्तं इति विशेषः प्रतिपत्तव्यः ॥ (११६) जीवत्पितकं अननुज्ञातं ताभ्यां अदूरदेशं प्रवज्यापेक्षं सप्ताहं धारयेत् ।। जीवतः पितरौ यस्यासौ जीवत्पितृकः, ताभ्यामिति मातापितृभ्याम् । ताभ्यां शब्दाच्च मातापित्रोरत्र पितृ-शब्दः इति ॥ (१२०) नानारोचितं दूरदेशमपि एनं संघे प्रवाजयेत् ॥ एनमिति जीवत्पितृकं अनुज्ञोतम् । ताभ्यां *आजीवत्पितृकस्य तु अनुज्ञातस्य वा मातापितृभ्यां अनारोचनमपि निर्दोषमिति प्रतिपत्तव्यम् । तथा वाऽजीवत्पितृके पृच्छापाठः–यस्य तावत् भदन्त मातापितरौ कालगतौ भवतः तिर्यग्योनिगतौ वा त[स्य केशावरो-] [Plate II 3 b]'पणाय सर्वसंघोऽवलोकयितव्यः, 'नो हीदं उपालिन्' इति । दूरदेशग्रहणं किमर्थं कृतम् । यतो अन्यतमया गृहपतिपत्न्या पुत्रः प्रवजितः आगत्योक्तः—'त्वं एषां शाक्यपुत्रीयाणां चौराणां मध्ये कस्मात् प्रवजितः, एहि गच्छावः', तयाऽसौगृहीत्वा गृहं नीतः। तदेवं चौर्येण समुदाचारोऽत्र आदीनवः. न च दूरदेशके अस्याभावः, स्वस्थानस्थाभ्यामपि श्रृत्वा कृतस्य आदीनवभूतत्वात्, आगत्यापि च आदीनवकरणस्य संभवत्वात्, तस्मात् दूरदेशमपि43 इति सूत्रितम् ॥ (१२१) युक्तं प्रवज्यापेक्षस्य संघेन भक्तदानम् ॥ युक्तमिति नैष नियमः, अवध्याने तेषां भिक्षूणां प्रवृत्तेः इति ख्यापयति ॥ (१२२) कृत् अनुज्ञातोऽसि मातापितृभ्यां अन्ते मुक्त्वा दूरदेशकम् ॥ अनुज्ञातोऽसि इति माऽसीत्यस्य स्थाने एतद् । कृदिति अनेन उक्तस्यान्ते मुक्त्वा दूरदेशकमित्ययं शब्दोऽधिकः प्रतिपत्तव्यः । ततश्च इदं वाक्यं-अनुज्ञातोऽसि मातापितृभ्यामिति । प्रव्रज्यार्थमित्यादि यावत् नाननुज्ञातं मातापितृभ्यां प्रव्राजयेयुरुपसंपादयेयुर्वा मुक्त्वा दूरदेशकम् इति ॥ (१२३) माऽसि ग्लान इत्युपसंक्रान्तं पृच्छेत् ॥ प्रव्रज्यार्थमिति प्रकरणात् गन्तव्यम् ॥ (१२४) मा ते ग्लान्यं किञ्चिदस्तीति वा ॥ पाठविकल्पस्य एष उपनिबन्धः। द्वयोः अन्यतरः वक्तव्य इति दर्शयति । (१२५) विशेषत उपसंपादकाः ॥ पृच्छेदित्यस्य परिणतस्य पृच्छे [यु] रित्यनुषङ्गः। भवन्ति खलु पुरुषाणामेते "एवं-रूपाः काये कायिकाबाधाः, तद्यथा-कुष्ठं गण्डं [च] इत्यादि-विशेषयुक्तम् । न एतावन्मात्रकं 'माऽसि ग्लान' इति ॥ (१२६) न ग्लानं प्रव्राजयेयुरुपसंपादयेयुर्वा ॥ आरोचक-प्रव्राजक-श्रामणेरत्वोपनायिसंघानां बहूनां व्यापार इति बहुवचनम् ॥ (१२७) कृत् प्राक्प्रणिहितात् ।। “न अभ्युपगतो निमित्तविपर्ययं प्रणिहितं"45 इत्यतः प्राक् यावनिर्देशः सर्वत्र कृदिति अधिकृतं वेदितव्यम् । सर्वे ते कृत्संबंधिनः ॥ (१२८) नास्ति अस्य प्ररोहणधर्मता इति च ॥ योऽत्र प्रतिषिध्यते निर्मितादि:45a तस्य 'च'-शब्दः प्राक्प्रणिहितादिति संबंधार्थः ॥ (१२९) नाशनं एवंविधस्य लिङ्गिनः ॥ एवंविधस्येति अप्ररोहणधर्मिणः । लिङ्गि [न]" इति प्रवजितस्य उपसंपन्नस्य वा । गृहस्थभूतस्य तु भिक्षुमध्ये

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134