Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute
View full book text ________________
विनयसूत्रवृत्त्यभिधानव्याख्यानम् (१०६) तदर्थ प्रतवन्तमेनं कृतोपासकतान्तं चतुरो मासान् परिवासयेत् संघो वत्वा ["परिवासं कर्मणा ॥ तदर्थमिति' आराधितचित्ततार्थं, तच्च अतद्वन्तं इति अन् (?) आराधितचित्तवन्तम् । 'तद्' इति तीर्थ्यम् । कृतोपासकतान्तं इति उपासकतान्तविधिं कृत्वा उपासकतान्तः । एवं तत्र ज्ञप्तिचतुर्थेन कर्मणा संघः चतुरो मासान् परिवासं दत्वा परिवासयेत् ॥ परिवासदाने (१०७) संघात् तस्य भक्तम् ॥ (१०८) उपाध्यायात् चीवरम् ॥ (१०९) कर्तृत्वं कर्मादानस्य (११०) परिपूर्ण] पञ्चदशवर्षोऽसि इति प्रव्रज्यार्थ उपसंक्रान्तं पृच्छेत् ॥ उपाध्यायः॥ (१११) नोनं असमर्थ काकोड्डायने, समर्थ वा सप्तवर्ष प्रवाजये-[Plate II. 3a]'युः ॥ द्वावेतौ न प्रव्राज्यौअसमर्थश्च पञ्चदशवर्षत्वादूनः समर्थश्च सप्तवर्षत्वात् । न प्रव्राजयेयुः इति बहुवचनं किमर्थम् । आरोचकेन अयं अशुद्ध इति ज्ञात्वा न आरोचयितव्यम्, संघे[न] न अनुज्ञातव्यम्, श्रामणेरत्वोपनायिना श्रामणेरत्वं नोपनेतव्यम् इति उपसंग्रहार्थम् ।। (११२) न एकत ऊध्वं श्रमणोद्देशमुपस्थापयेत् ।। द्वितीयश्रमणो द्देशानुपस्थापने द्वितीयस्याप्रव्राजनमपि आपन्नं तदपवादार्थम् आह-(११३) अरुचिश्चेत् अनकध्यं प्रव्रज्यायां, प्रव्रज्यातिरिक्तं उपसंपादयेत् ॥ द्वयोः प्रव्रज्यार्थ एकत्र आवाभ्यां प्रवजितव्यम्-इत्येवं निश्चित्य आगतयोः यदि अनैकध्यं पृथक्प्रव्रज्यायां अरुचिः, ततः उभौ प्रवाज्य एकस्मादतिरिच्यमानः उपसंपाद्यः ॥ (११४) ऊनश्चेत् अन्य स्म उपनिश्रित्यर्थ अर्पयेत् ।। विंशतिवर्षत्वाद्यदि ऊनः ततो अन्यस्मै भिक्षवे उपनिश्रयार्थं अर्पयितव्यः। यस्य उपनिश्रयार्थ अर्पितः-(११५) नासौ तमाच्छिन्द्यात् ।। येन अर्पितः स एनं (११६) उपसंपादयेत् । अप्रयच्छतो बलात् 'अनादाय ॥ यतः कल्पाथ परस्य उपनिश्रयेण दानं, न समर्पिकतया, तस्मात् 'अना]च्छेदः ॥ (११७) कृत् दासः ॥ कृदित्यनया संज्ञया 'माऽसि' इत्यादेः संज्ञिनो दासे संबन्धिनः प्रत्युपस्थानम् । अतोऽस्मिन् संज्ञानिदशे योऽतिरिक्तोऽङ्गीक्रियते, स यथार्थ परिणतोऽपि यथास्थानं संनिविशते ॥ वाक्यं चेदमत्र ज्ञायते। 'माऽसि दास' इति प्रव्रज्यार्थ उपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च न दासं प्रव्राजयेयु[रुपसंपा] दयेयः वा इति । (११८) व्यसिस्ते कस्यचित्किचिदेयं अल्पं वा प्रभूतं वा । विगतासिय॑सिः । असिशब्दवजितः कृत् वाच्यः इत्यर्थः । 'असि' इत्यस्य च स्थाने 'ते' इति वक्तव्यम्, ततश्च इदं वाक्यम्-"मा ते कस्यचित्किचिद्देयं अल्पं वा प्रभूतं वा" इति प्रव्रज्यार्थमुपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च, न ऋणवन्तं प्रव्राजये युरुप] 'संपादयेयुश्च इति मन्त्रात् । अत्र शक्ष्यामि प्रव्रज्योपसंपदं वा “ आदातुं इति प्रतिजानानं मुक्त्वा,
Loading... Page Navigation 1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134