Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 69
________________ २२ विनयसूत्रवृत्त्यभिधानव्याख्यानम् वसतो यात्रिक-प्रयोजनवशात् नाशनं न वा ।। इदानीं कृदादिसंबन्धिनो निर्दिश्यन्ते(१३०) निमितः ॥ 'माऽसि निर्मित' इति प्रव्रज्यार्थं उपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च, न निर्मितं प्रव्राजयेयुः उपसंपादयेयुर्वा ॥ 'नास्त्यस्य प्ररोहणधर्मता, [Plate II 4a]१ नाशनं एवं-विधस्य लिङ्गिनः' इत्येवं अन्यत्रापि पण्डकादौ योज्यम् ॥(१३१) पण्डकः ।। पाञ्चविध्यमस्येति ॥ अस्येति पण्डकस्य । [पञ्चविधं 'कतमम् ।] ॥ (१३२) जात्या-,पक्ष,प्रासक्तप्रादुर्भाव-, ईर्ष्या [प्रादुर्भाव]-, आपत्कृत् इति। जात्या जातिपण्डको, यो जन्मना एव न स्त्री न पुरुषः ॥ पक्ष इति यः पेक्षे स्त्री पक्षे पुरुषः स पक्षपण्डकः । पक्षोऽर्धमासः ॥ प्रासक्तप्रादुर्भाव इति यस्य परेण उपक्रान्तस्य प्रादुर्भावो' भवति [स] आसक्तपण्डकः ॥ ईयया यस्य परेण उपक्रान्तं स्त्रियं दृष्ट्वा प्रादुर्भावो भवति स ईर्ष्यापण्डकः ॥ प्रा[प]त्कृत् इति आपत्पण्डको, यस्य छेदादिना पुरुषेन्द्रियं विनष्टं भवति ॥ (१३३) अन्त्यस्यात्र दोषभक्तौ नाशनम् ।। अन्त्यस्येति आपत्पण्डकस्य । सपदि पण्डकदोषं भजते, ततो नाशयितव्यो, नान्यथा इत्यर्थः । (१३४) स्तेय-संवासिक ॥ इत्यस्य लक्षणमाह-जानतो अकृततां विधेः उपसंपदो अप्ररूढतां वा द्वितीयायां संघेन साधं कर्मणः प्रत्यनुभूततायां तत्त्वम् । उपसंपद्गतो यो विधिः ज्ञप्त्यादिकः तस्य अकृतत्वं जानतः, कृतत्वेऽपि अरूढतां, यद्यपि विधिकृतो न तूपसंपद्रूढः, ऊनविंशति-वर्षता[दि]"ना दोषेणेति। संघेन साधं द्वितीयस्य कर्मणः प्रत्यनुभवे तत्त्वं इति स्तेयसंवासिकत्वम् ॥ ननूक्तम्-'यतश्चोपालिन्, प्रकृतिस्थैः भिक्षुभिः साधं द्वे त्रीणि वा पोषधकर्माणि प्रत्यनुभूतानि भवन्ति इयता स्तेय-संवासिक' . इति । अथ कस्मात् 'त्रीणि वा' इत्येतन्न सूत्रितम् ?–यतो नैतन्नियमकारि वचनम्, "अपि तु प्रबन्धस्यैतद् प्रदर्शनम् । प्रबन्धमारभमाणो ध्वस्यत इति । इतरथा द्वे इति अस्य व्यवस्थानस्य त्रीणि वा' इत्येतद् उच्छ्वास इति विज्ञायते ।। ततश्च कृत्रिममेतद् प्रज्ञप्तिकं, न धर्मतया व्यवस्थायीत्यापद्यते च ॥ अत्र च ग्रन्थोऽपि । कथावस्तुनि स्यात्, येन वस्तुना स्तेयसंवासिको न प्रवाजयितव्यो नोपसंपादयितव्यः, तेनैव वस्तुना प्रव्राजयितव्यः उपसंपादयितव्य स्यात् [इति चेत् आह-येन द्वौ त्रयो वा पोषधाः प्रत्यनुभूता भवन्ति, अयं न प्रव्राजयितव्यो नोपसंपादयितव्यः । येन तु सकृत्पोषधः अनुभूतो भवति अयं प्रव्राजयितव्य उपसंपादयितव्यश्चेति, न हि अन्यथा एकांशेन, द्वयप्रत्यनुभवेन अर्हत्वम् ॥ युक्तिः पुनः यस्मादत्र प्रथमं प्रवर्तमानः साशंको भवति, नास्य तस्मिन् मिथ्यात्वं प्रकृतितां गतं भवति, प्रबध्नस्तु तन्मयतां आपद्यत इति ॥ ननु अत्र पोषधग्रहणं कृतम्, तदेह कस्मात् अविशेषेण सर्वकर्मप्रत्यनुभावः, उच्यते-संघसंनिश्रवे एतद्-करणीये अन्तर्भवनम्, यत् पोषधे तुल्यं वा अन्येषामपि कर्मणां संघाभिनिश्रयत्वम् ॥ तस्मात् निदर्शनत्वेन [Plate II. 4b] 47

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134