________________
२२
विनयसूत्रवृत्त्यभिधानव्याख्यानम् वसतो यात्रिक-प्रयोजनवशात् नाशनं न वा ।। इदानीं कृदादिसंबन्धिनो निर्दिश्यन्ते(१३०) निमितः ॥ 'माऽसि निर्मित' इति प्रव्रज्यार्थं उपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च, न निर्मितं प्रव्राजयेयुः उपसंपादयेयुर्वा ॥ 'नास्त्यस्य प्ररोहणधर्मता, [Plate II 4a]१ नाशनं एवं-विधस्य लिङ्गिनः' इत्येवं अन्यत्रापि पण्डकादौ योज्यम् ॥(१३१) पण्डकः ।। पाञ्चविध्यमस्येति ॥ अस्येति पण्डकस्य । [पञ्चविधं 'कतमम् ।] ॥ (१३२) जात्या-,पक्ष,प्रासक्तप्रादुर्भाव-, ईर्ष्या [प्रादुर्भाव]-, आपत्कृत् इति। जात्या जातिपण्डको, यो जन्मना एव न स्त्री न पुरुषः ॥ पक्ष इति यः पेक्षे स्त्री पक्षे पुरुषः स पक्षपण्डकः । पक्षोऽर्धमासः ॥ प्रासक्तप्रादुर्भाव इति यस्य परेण उपक्रान्तस्य प्रादुर्भावो' भवति [स] आसक्तपण्डकः ॥ ईयया यस्य परेण उपक्रान्तं स्त्रियं दृष्ट्वा प्रादुर्भावो भवति स ईर्ष्यापण्डकः ॥ प्रा[प]त्कृत् इति आपत्पण्डको, यस्य छेदादिना पुरुषेन्द्रियं विनष्टं भवति ॥ (१३३) अन्त्यस्यात्र दोषभक्तौ नाशनम् ।। अन्त्यस्येति आपत्पण्डकस्य । सपदि पण्डकदोषं भजते, ततो नाशयितव्यो, नान्यथा इत्यर्थः । (१३४) स्तेय-संवासिक ॥ इत्यस्य लक्षणमाह-जानतो अकृततां विधेः उपसंपदो अप्ररूढतां वा द्वितीयायां संघेन साधं कर्मणः प्रत्यनुभूततायां तत्त्वम् । उपसंपद्गतो यो विधिः ज्ञप्त्यादिकः तस्य अकृतत्वं जानतः, कृतत्वेऽपि अरूढतां, यद्यपि विधिकृतो न तूपसंपद्रूढः, ऊनविंशति-वर्षता[दि]"ना दोषेणेति। संघेन साधं द्वितीयस्य कर्मणः प्रत्यनुभवे तत्त्वं इति स्तेयसंवासिकत्वम् ॥ ननूक्तम्-'यतश्चोपालिन्, प्रकृतिस्थैः भिक्षुभिः साधं द्वे त्रीणि वा पोषधकर्माणि प्रत्यनुभूतानि भवन्ति इयता स्तेय-संवासिक' . इति । अथ कस्मात् 'त्रीणि वा' इत्येतन्न सूत्रितम् ?–यतो नैतन्नियमकारि वचनम्, "अपि तु प्रबन्धस्यैतद् प्रदर्शनम् । प्रबन्धमारभमाणो ध्वस्यत इति । इतरथा द्वे इति अस्य व्यवस्थानस्य त्रीणि वा' इत्येतद् उच्छ्वास इति विज्ञायते ।। ततश्च कृत्रिममेतद् प्रज्ञप्तिकं, न धर्मतया व्यवस्थायीत्यापद्यते च ॥ अत्र च ग्रन्थोऽपि । कथावस्तुनि स्यात्, येन वस्तुना स्तेयसंवासिको न प्रवाजयितव्यो नोपसंपादयितव्यः, तेनैव वस्तुना प्रव्राजयितव्यः उपसंपादयितव्य स्यात् [इति चेत् आह-येन द्वौ त्रयो वा पोषधाः प्रत्यनुभूता भवन्ति, अयं न प्रव्राजयितव्यो नोपसंपादयितव्यः । येन तु सकृत्पोषधः अनुभूतो भवति अयं प्रव्राजयितव्य उपसंपादयितव्यश्चेति, न हि अन्यथा एकांशेन, द्वयप्रत्यनुभवेन अर्हत्वम् ॥ युक्तिः पुनः यस्मादत्र प्रथमं प्रवर्तमानः साशंको भवति, नास्य तस्मिन् मिथ्यात्वं प्रकृतितां गतं भवति, प्रबध्नस्तु तन्मयतां आपद्यत इति ॥ ननु अत्र पोषधग्रहणं कृतम्, तदेह कस्मात् अविशेषेण सर्वकर्मप्रत्यनुभावः, उच्यते-संघसंनिश्रवे एतद्-करणीये अन्तर्भवनम्, यत् पोषधे तुल्यं वा अन्येषामपि कर्मणां संघाभिनिश्रयत्वम् ॥ तस्मात् निदर्शनत्वेन [Plate II. 4b] 47