________________
१ प्रव्रज्यावस्तु
पोपधग्रहणं व्यवस्थितम् ॥ अपरिपूर्ण उपसंपद् - आपत्तिपृच्छाकर्मणि अत्र आगमोऽपि भवति । ज्ञप्तिचतुर्थेन कर्मणा अनुपसंपन्ने संघकर्मणि पोषधे वा प्रवारणायां वा द्वादशपुद्गलो-17 द्दिष्टानुभूतिः, एतावता स्तेयसंवासको भवति इत्युक्तम् । यावत् अनुपसंपन्नेन अकरणीयानुलक्षितं संघस्य प्रव्रज्याSS रोचनादि तद् सर्वसंघाधीनत्वात् [ संघ ? ] कर्मपक्षत्वम् । ततः कर्मग्रहणमपि अत्र प्रतिपत्तव्यम्, यदि तस्य प्रव्रज्याssरोचन श्रामणेरत्वोपपत्ति-रहोनुशासन पारिशुद्धि. संग्रह - परिवासाद्यारोचनानां अनुप्राप्तीनां अपि प्रत्यनुभूतस्य स्तेयसंवासिकत्वं व्यवस्थितम् ।। (१३५) तीर्थिक प्रक्रान्तक इति ॥ तत्स्वरूपपरिज्ञापनार्थम्- (१३६) समात्तेदं प्रव्रज्यस्य तद्दृष्टेः निक्षिप्येदं चीवरं तेन ध्वजेन तत्रारुणोद्गमने तत्त्वम् ।। इत्युक्तम् । समात्तेदंप्रव्रज्यस्य इति समादानेन प्रव्रज्या अस्य तद्दृष्टेरिति तीथिकानां दृष्टौ, अस्यां स्थितः तददृष्टिकः । चोवरमिदं निक्षिप्य इति सुगतभिक्षुवेषं उत्सृज्य । तेन ध्वजेन इति तीर्थिकस्य ध्वजेन । तत्र इति तीर्थिकस्य अवस्थितौ । अरुणोद्गमने तत्त्वम् तीर्थिकावक्रान्तकत्वम् ॥ (१३७) तदकृतमपि स्तेयवत् ॥ तथागतवेषमुत्क्षिप्य अभिकांक्षितस्य तीर्थिकस्य अभिकांक्षितलिङ्गेन आच्छाद्य उषिते अरुणोद्गमनं इति । इदं तथागतलिङ्गसमादानम्, न तीर्थिकदृष्टिः । इदं तदकृतम् ॥ पश्चात् इमस्मिन्नकृते अन्यथापि तीर्थिकगतत्वं भवति चेत्, तद्यथा स्तेयवत् ॥ स्तेयस्याऽपि अन्तर्भूतम् (?) ततो अनुभूतिद्वयमित्यर्थः । (इति) स्तेयसंवासिकत्वं उक्तम् ॥ (१३८-१४५) मातृघातकः । पितृघातकः । अर्हद्घातकः । संघभेदकः । तथागतस्यान्तिके दुष्टचित्तेन रुधिरोत्पादकः । भिक्षुणीदूषकः । चतुर्णां पााजिकानां अन्यतमामापत्ति आपन्नः [ न वेति'"] ॥ न अभ्युपगतो निमित्तविपर्ययं प्रणिहितं प्रव्रज्योपसंपदोः अकरणम् ॥ इति निमित्तविपर्ययः इति येन निमित्तेन कलहविवादादिना तर्जनीयादि इष्टकर्मकरणं भवति तस्य विपर्ययः कलहविवादाद्यभावः ॥ प्रणिहितानभ्युपगमो हि साधनत्वाभावः ॥ ( १४६) उपसंपदः क्षान्ति-ज्ञप्तिरिति ॥ अक्षान्ता अनुपसंपन्नाः, उपसंपन्नत्वक्षमत्वात् पुनः अन्यक्षान्तिकार्यं न ॥ क्षान्तिरिति क्षान्तिकार्यम् । 'भदन्ताः भिक्षवः, तर्जनीयकर्मणः तावत् उपसंपत्करणे उपसंपदितिकरणं अनुपसंपदिति वा करणं (इति)
48
२३