________________
१ प्रव्रज्यावस्तु न ऋणवन्तं इति विशेषः प्रतिपत्तव्यः ॥ (११६) जीवत्पितकं अननुज्ञातं ताभ्यां अदूरदेशं प्रवज्यापेक्षं सप्ताहं धारयेत् ।। जीवतः पितरौ यस्यासौ जीवत्पितृकः, ताभ्यामिति मातापितृभ्याम् । ताभ्यां शब्दाच्च मातापित्रोरत्र पितृ-शब्दः इति ॥ (१२०) नानारोचितं दूरदेशमपि एनं संघे प्रवाजयेत् ॥ एनमिति जीवत्पितृकं अनुज्ञोतम् । ताभ्यां *आजीवत्पितृकस्य तु अनुज्ञातस्य वा मातापितृभ्यां अनारोचनमपि निर्दोषमिति प्रतिपत्तव्यम् । तथा वाऽजीवत्पितृके पृच्छापाठः–यस्य तावत् भदन्त मातापितरौ कालगतौ भवतः तिर्यग्योनिगतौ वा त[स्य केशावरो-] [Plate II 3 b]'पणाय सर्वसंघोऽवलोकयितव्यः, 'नो हीदं उपालिन्' इति । दूरदेशग्रहणं किमर्थं कृतम् । यतो अन्यतमया गृहपतिपत्न्या पुत्रः प्रवजितः आगत्योक्तः—'त्वं एषां शाक्यपुत्रीयाणां चौराणां मध्ये कस्मात् प्रवजितः, एहि गच्छावः', तयाऽसौगृहीत्वा गृहं नीतः। तदेवं चौर्येण समुदाचारोऽत्र आदीनवः. न च दूरदेशके अस्याभावः, स्वस्थानस्थाभ्यामपि श्रृत्वा कृतस्य आदीनवभूतत्वात्, आगत्यापि च आदीनवकरणस्य संभवत्वात्, तस्मात् दूरदेशमपि43 इति सूत्रितम् ॥ (१२१) युक्तं प्रवज्यापेक्षस्य संघेन भक्तदानम् ॥ युक्तमिति नैष नियमः, अवध्याने तेषां भिक्षूणां प्रवृत्तेः इति ख्यापयति ॥ (१२२) कृत् अनुज्ञातोऽसि मातापितृभ्यां अन्ते मुक्त्वा दूरदेशकम् ॥ अनुज्ञातोऽसि इति माऽसीत्यस्य स्थाने एतद् । कृदिति अनेन उक्तस्यान्ते मुक्त्वा दूरदेशकमित्ययं शब्दोऽधिकः प्रतिपत्तव्यः । ततश्च इदं वाक्यं-अनुज्ञातोऽसि मातापितृभ्यामिति । प्रव्रज्यार्थमित्यादि यावत् नाननुज्ञातं मातापितृभ्यां प्रव्राजयेयुरुपसंपादयेयुर्वा मुक्त्वा दूरदेशकम् इति ॥ (१२३) माऽसि ग्लान इत्युपसंक्रान्तं पृच्छेत् ॥ प्रव्रज्यार्थमिति प्रकरणात् गन्तव्यम् ॥ (१२४) मा ते ग्लान्यं किञ्चिदस्तीति वा ॥ पाठविकल्पस्य एष उपनिबन्धः। द्वयोः अन्यतरः वक्तव्य इति दर्शयति । (१२५) विशेषत उपसंपादकाः ॥ पृच्छेदित्यस्य परिणतस्य पृच्छे [यु] रित्यनुषङ्गः। भवन्ति खलु पुरुषाणामेते "एवं-रूपाः काये कायिकाबाधाः, तद्यथा-कुष्ठं गण्डं [च] इत्यादि-विशेषयुक्तम् । न एतावन्मात्रकं 'माऽसि ग्लान' इति ॥ (१२६) न ग्लानं प्रव्राजयेयुरुपसंपादयेयुर्वा ॥ आरोचक-प्रव्राजक-श्रामणेरत्वोपनायिसंघानां बहूनां व्यापार इति बहुवचनम् ॥ (१२७) कृत् प्राक्प्रणिहितात् ।। “न
अभ्युपगतो निमित्तविपर्ययं प्रणिहितं"45 इत्यतः प्राक् यावनिर्देशः सर्वत्र कृदिति अधिकृतं वेदितव्यम् । सर्वे ते कृत्संबंधिनः ॥ (१२८) नास्ति अस्य प्ररोहणधर्मता इति च ॥ योऽत्र प्रतिषिध्यते निर्मितादि:45a तस्य 'च'-शब्दः प्राक्प्रणिहितादिति संबंधार्थः ॥ (१२९) नाशनं एवंविधस्य लिङ्गिनः ॥ एवंविधस्येति अप्ररोहणधर्मिणः । लिङ्गि [न]" इति प्रवजितस्य उपसंपन्नस्य वा । गृहस्थभूतस्य तु भिक्षुमध्ये