Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 71
________________ विनयसूत्रवृत्त्यभिधानव्याख्यानम् उपमण्डलोपसंपद् उक्ता । उपसंपत्करणे सातिसारे सति, क्षान्तिर्हि ज्ञप्तिः, ' इति निदाने उक्तम् ॥ ( ९४७) उपसंपदं अनुपपन्नश्चेत् सामग्री पुन: प्रणिधानम् ॥ इति उपसंपदः कलहाकरणत्वादि निमित्तविपर्यये अनुपपन्नः चेत् सामग्रयां पुनः कर्म कर्तव्यमित्यर्थः ॥ ( १४८) अदर्शनोक्तौ मृषा चेत्, प्रायश्वित्तिकम् ॥ इति आपत्तिः मया न दृष्टा इति मृषोक्तौ आपत्तिकरणे अस्य प्रायश्चित्तिकम् ॥ एतादृशन्यायवतः मृषावादेषु प्रायश्चित्तिकाभावः न प्रज्ञप्तव्यः ॥ २४ हस्तच्छिन्नाः पादच्छिन्ना अंगुली फणहस्तकाः । अनोष्ठकाश्च चित्राङ्गाः अतिवृद्धा अतिबालकाः ॥ खञ्जः काण्डरिकः काण: कुणिः कुब्जोऽथ वामनः । गलगण्डमूकबधिराः पीठसप (च) श्लीपदः ॥ स्त्रीच्छिन्ना भारच्छिन्ना मार्गच्छिन्नाश्च ये नराः । तालमुक्ताः कन्दलीच्छिन्ना एवं रूपा हि पुरुषाः ॥ - प्रतिक्षिप्ता महर्षिणा ॥ परिशुद्धस्योपसंपदा | प्रासादिकस्य प्रव्रज्या आख्याता सत्यनाम्ना वै संबुद्धेन प्रजानता ॥ इति ॥ हस्तच्छिना इति मणिबन्धमुद्गृह्य येषां हस्ताः छिन्नाः ॥ पादच्छिन्ना इति येषां आगुल्फं छेदः ते पादच्छिन्नाः ॥ येषां हस्तागुलयो नागफणसदृशाः अङ्गुलीकणहस्तकाः ॥ येषां भोष्ठकद्वयाभावः ते अनोष्ठकाः ॥ येषां काये चित्रचिह्नानि ते चित्राङ्गाः । हस्तादिषु चित्रितः चित्राङ्गाः । अविरतं स्रवन्त इव इत्यादयः ॥ अतिवृद्धा इति शतवार्षिकादयः । अतिबालका इति काकोड्डापनेऽसमर्थ: असप्तवर्षकः ॥ खञ्जा इति पादेन खगमनाः ॥ काण्डरिक इति सक्थिपक्ष - गृध्रसीवातेन संध्वस्तगमनः ॥ काणः एकाक्षः ॥ कुणिः यस्य मणिबन्धपक्षे चिह्नमात्रस्ते सति किञ्चिदपि करणे असमर्थः ॥ गलग डः ग्रीवा-गण्डिका यस्य स गलगण्डः ॥ मूकः वागसमर्थः ॥ पीठसपि इति आधारार्थं हस्तद्वयं प्रतिष्ठाप्य चतुरूपेण सर्पति । द्वितीयः पर्यायः फक्कः इत्यपि ॥ स्त्रीच्छिन्नः ॥ स्त्रीणां उत्कटसेवनया क्षतवीर्यः, यस्य कायः असुखः स्त्रीच्छिन्नः ॥ तथैव अक्षमभारधार

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134